पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/५३

पुटमेतत् सुपुष्टितम्
left
३९
गोपालसहस्रनामस्तोत्रम्


पद्मनाभः - नाभौ यस्य सः जगत्स्रष्टृचतुर्मुखजन्मस्थानं पद्मं नाभावस्येत्यर्थः । तेन सकलजगत्कारणत्वमुच्यते । 'अजस्य नाभावध्येकमर्पितम्’ इति श्रुतिः। अजस्य परमात्मनः नाभौ जगन्मूलकन्दभूतं पद्ममाश्रितमित्यर्थः । सुरज्येष्ठी-देवज्येष्ठः । देवानामग्रगण्यः । ब्रह्मा- चतुर्मुखः तदन्तर्यामी । रुद्रः- आश्रिताना रुजं द्रावयतीति । अहिभूषितः -- सर्पालङ्कृतः। अहिना कालियसपेण भूषितः अलङ्कृतः । तस्य दमनकाले तत्फणामण्डलमध्यवर्तित्वात् । यद्वा स्वपादचिह्नेनाहिः कालियः भूषित; अलङ्कृतो येन सः । आहिताग्न्यादित्वात् भूषितशब्दस्य परनिपातः । गणान:-स्वपरिवारभूतानां देवानां गोगोपगोप्यादिगणानां च । त्राणकर्ता रक्षकः । गणेशः गणानां तेषामेव वा परिवाररूपाणां कुमुदकुमुदाक्षादीनां वा ईश्वरः नियन्ता । ग्रहिलः –ग्रहणशीलः सर्वजगद्वशीकर्तेत्यर्थः । ग्रहाः सूर्यादयः नियम्यत्वेन सन्त्यस्येति वा ग्रहिलः । पिच्छादित्वान्मत्वर्थीय इलच् । ग्रही-- भक्त्या दीयमानं पत्रपुष्पादिकं प्रीत्या गृह्णाति स्वीकरोतीति ग्रही ॥ ४४ ॥


 गणाश्रयो गणाध्यक्ष: क्रोडीकृतजगत्त्रयः ।
 यादवेन्द्रो द्वारकेन्द्रो मधुरावल्लभो धुरी ॥ ४५ ॥

गणाश्रयः - नित्यसूरिगणानां भक्तवर्गाणां च आश्रयभूतः । दुःखपीडितजनसमूहाश्रय इति वा। 'आर्तानां संश्रयश्चैष यशसश्चैकभूषणम् । (रा. 4-15-19) इति रामायणे । गणाध्यक्ष:- देवगणानामधिपतिः । क्रोडीकृतजगत्रयः--- क्रोडीकृतं स्ववशीकृतं जगत्त्रयं भूम्यन्तरिक्षस्वर्गात्मकं येन सः । यादवेन्द्रः -- यदुकुलोत्पन्नेषु श्रेष्ठः । द्वारकेन्द्रः- द्वारकाधिपतिः । मधुरावल्लभः --- मधुरानगराधिपतिः। यदुकुले द्वारकायां मधुरायां च श्रीकृष्णचेष्टितानि भागतादिषु वर्णितान्यत्रानुसन्धेयानि। धुरी- भुवनभारं रक्षणभरं वा वहतीति धुरी ॥ ४५ ॥


 45 b क. गणक्रोषी
  ङ गणाक्रोषी