पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/५७

पुटमेतत् सुपुष्टितम्
४३
गोपालसहस्रनामस्तोत्रम्


बलं करोतीति वा । प्रहर्ता शत्रुहन्ता। 'अभियाता प्रहर्ता च सेनानयविशारदः' (रा. 2-1-29) इति रामायणे । दैत्यहा- असुरान् हतवान् प्रभुः-- सर्वजगत्स्वामी सामर्थ्यातिशयवान् वा। प्रभवत्यस्मात्सर्वमिति वा प्रभुः । 'अहं सर्वस्य प्रभवः' (गी.10-8) इति स्मृतेः ॥ ५० ॥


 महाधनी महावीरो वनमालाविभूषणः ।
 तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥ ५१ ॥

 महाधनी – अर्थिभ्यो दातव्यं महत् धनमस्यास्तीति महाधनीमहावीरः --- महापराक्रमशाली । वनमालाविभूषणः- वनमाला वैजयन्तीनाम्नी माला विभूषणमलङ्कारो यस्य सः। भूतसूक्ष्मरूपमालालङ्कृत इति वा ।

 'तुलसीकुन्दमन्दारकरवीरसरोरुहैः ।
 पञ्चभी रचिता माला वनमालेति कीर्तिता ॥'

इत्युक्तया वनमालया विभूषित इत्यर्थः ।

 'मणिना काञ्चनेनापि वज्रवैडूर्यमौक्तिकैः ।  रचिता पञ्चभिर्माला वैजयन्तीति कीर्तिता ।'

इति स्मृतेः वैजयन्ती अन्येति केचित् । तुलसीदामशोभाढ्यः- तुलसीमालाकृतया शोभया सम्पन्नः । जालन्धरविनाशनः-- जालन्धरो नामासुरविशेषः तस्य संहारकः । अयं वृत्तान्तः पाद्मोत्तरखण्डे विस्तरेण वर्तते ॥५१॥


 शूरः सूर्यो मृतण्डश्च भास्करो विश्वपूजितः ।
 रविस्तमोहा वह्निश्च बाडवो वडवानलः ॥ ५२ ॥



 51 a क.ख ङ . महाघनो
 51 d ङ जलन्धर
 52.a ख.घ. शरः सूर्यो
  क. सूर्यो भ्रतण्डश्च
  ख. सूर्यो मृकण्डश्च