'आह्वादशीतनेत्राम्बुः पुलकीकृतगात्रवान् ।
सदा परगुणाविष्टो द्रष्टव्यः सर्वदेहिभिः॥'
इति विष्णुतत्त्वे भक्तस्यावस्था वर्णितात्रानुसन्धेया। नलः-नलचक्रवर्तिस्वरूपः । रलयोरभेदात् नर इति वा । पुरुष इत्यर्थः । न लीयते क्षीयत इति वा नलः । नीलः--नीलवर्णः । भगवतो नीलमेघश्यामलत्वात् । लाङ्गली-हलायुधो बलरामः । लाङ्गलाश्रयः- स एव । पारदः । संसारपारभूतं मोक्षं ददाति इति पारदः। मोक्षप्रद इत्यर्थः । 'मोक्षमिच्छेत् जनार्दनात्’ इति स्मृतेः। पावन:--पावयतीति पावनः चालनः । मीषास्माद्वातः पवते' (तै. बा. 32) इति श्रुतेः । पवित्राणां पवित्रत्वापादक इति वा। हंस:-हंसरूपी, कृतहंसावतारः । हंसारूढः -हंसमारूढः। जगत्पतिः जगतां पतिः स्वामी ॥ ५८ ॥
मोहिनीमोहनो मायी महामायो महामखी ।
वृषो वृषाकपिः कालः कालीदमनकारकः ॥ ५९ ॥
मोहिनीमोहनः- मोहिन्यवतारेण असुराणां व्यामोहजनकः ।
मायी --- माया विचित्रसृष्टीकरी प्रकृतिः अस्यास्तीति मायी। 'मायां तु
प्रकृतिं विधान्मायिनं तु महेश्वरम्' (श्वे. 4-10) इति श्रुतिः। महामायः
महती माया आश्चर्यजनकशक्तिः यस्य सः । महामखी- महान्तो मखा:
यज्ञा आराध्यतया अस्य सन्तीति महामखी। वृषः --- आश्रितानामभीष्टवर्षुकः ।
वृषाकपिः सर्वकामानां वर्षणात् वृषः धर्मः कात् तोयात् भूमिमपादिति कपिर्वराहः ।
धर्मरूपत्वात् वराहरूपत्वाच्च वृषाकपिः ।
'कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते ।
तस्मात् वृषाकपिं प्राह काश्यपो मां प्रजापतिः ॥"
59 a ङ मोहनीमोहनो
59 b ङ महामायी महामखः
'महामाया महामखः' इति मुद्रितपुस्तके।