पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/६४

पुटमेतत् सुपुष्टितम्
५०
गोपालसहस्रनामस्तोत्रम्



 हरिर्नारायणो नारो नरोत्तम इषुप्रियः।
 गोपाली चित्तहर्ता च कर्ता संसारतारकः ॥ ६३ ॥

 यज्ञे दीयमानं हविः हरतीति हरिः। नार: नरेष्वन्तर्यामितया स्थितः । नरोत्तमः-पुरुषोत्तमः । इषुप्रियः-बाणप्रियः । गोपाली-गोपालवेषधारी । चित्तहर्ता-रूपौदार्यगुणैः सर्वेषां चित्तस्यापकर्षकः । अथवा गोपालीचित्तहर्तेत्येकं पदम् । गोपस्त्रीणां रूपौदार्यगुणैः चित्ताकर्षक इत्यर्थः। कर्ता- स्वतन्त्रः। संसारतारकः- संसारार्णवपारगमयिता । 'अमृतस्यैष सेतुः' (सु. 2-2.6) इति श्रुतिः ।। ६३ ।।


 आदिदेवो महादेवो गौरीगुरुरनाश्रयः ।
 साधुर्मधुर्विधुर्धाता त्राताक्रूरपरायणः ॥ ६४ ॥

 आदिदेवः - सर्वेषामपि कारणभूतः अत एव द्योतमानः। महादेव: महांश्वासो देवश्च । गौरीगुरुः --- गोर्याः पार्वत्याः पतिः । परमशिवस्वरूप इति यावत् । अनाश्रयः -- न विद्यते आश्रयो यस्य सः। अनन्याचारः स्वमहिमप्रतिष्ठः। साधुः---न्यायमार्गे प्रवृत्तः, अभीष्टं माधयतीति वा साधुः । मधुः - लब्धविद्येभ्यः मधुवत् स्वदमानः । 'प्रिया हि ज्ञानिनोत्यर्थम् ' (गो, 7-17) माधुरिति पाठे मां लक्ष्मीं दधातीति माधुः लक्ष्मीधर इत्यर्थः । विधुः- विध्यत्यसुरानिति विधुः । विदधाति सर्वं जगदिति वा । धाता--स्रष्टा धारयिता वा विश्वस्य । त्राता- रक्षकः । अ्क्रूरपरायणः अक्रूरे प्रीतिमान् । अक्रूरनामा ऋषिः कृष्णभक्तः भागवते प्रसिद्धः । अक्रूराणां- सात्विकजनानां परमप्राप्यभूत इति वा ॥ ६४ ॥


 रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः ।
 वनं वनी वनाध्यक्षः महावन्धो महामुनिः ॥ ६५ ॥


 63 a ख घ. हरिंहरी नरो नारो
 63 c क.घ. गोपालश्चित्त:.
 64 d... ख घ भ्राताक्रूर

--