पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/७०

पुटमेतत् सुपुष्टितम्
५६
 



 गुग्गुली मारकी शाखी वटः पिप्पलकः कृती।
 म्लेच्छहा कालकर्ता च यशोदायश एव च ॥ ७४ ॥

 गुग्गुली --- गुग्गुलाख्यवृक्षविशेषस्वरूपी । गुग्गुलाख्यधूपोऽस्यास्ति प्रियत्वेनेति वा गुग्गुली । मारकी-मारं कामं कायतीति मारकः वेणुः सोऽस्यास्तीति । शाखी -वेदशाखाः प्रतिपादकत्वेन सन्त्यस्येति । वटः-- वटवृक्षस्वरूपी । वटते स्वशक्त्या वेष्टयते सर्वानिति वा। पिप्पलकः- अश्वत्थवृक्षस्वरूपी। कृती-धर्मप्रवर्तनार्थं कृतमनेनेति । म्लेच्छहा -- म्लेच्छान् हतवान् । कालकर्ता-कालस्य कर्ता अहोरात्रादिरूपेण कालस्य विभावक इत्यर्थः । यशोदायशः-यशोदायाः मातुः कीर्तिप्रदः। । कृष्णस्य माता यशोदा कीदृशं तपः तप्तवती इति हि जनाः कीर्तयन्ति ।। ७४ ।।


 अच्युतः केशवो विष्णुः हरिः सत्यो जनार्दनः ।
 हंसो नारायणो लीलो नीलो भक्तिपरायणः ॥ ७५ ।।

 अच्युतः----स्वरूपेण गुणैश्च न च्यवत हत्यच्युतः ! ’शाश्वत शिवमच्युतम्’। (ना.उ. 13-1) इति श्रुतेः । विकाररहित इत्यर्थः । केशवः ---- प्रशस्तनीलकुन्तलः, केशिसंहर्ता ब्रह्मरुद्रयोरीश इति वा । विष्णुः -- स्वनियाम्यभूतं चिदचिदात्मकं सर्वं विशति व्याप्नोतीति विष्णुः ॥

 'व्याप्ते मे रोदसी पार्थ कान्तिश्चाभ्यधिका स्थिता।  क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः ॥ ' (भार. शा. ३४१-.४२) हरिः ---- सहेतुकं संसारं हरति निवर्तयतीति हरिः । सत्यः ---- सत्सु साधुः, निर्विकारः । सत्यं यथार्थभाषणमस्यास्तीति वा सत्यः जनार्दनः - रक्षाप्रतिपक्षान् जनान् अर्दयति हिनस्तीति जनार्दनः। हंसः- संसारभयं भक्तानां हन्तीति हंसः । गृहीत हंसावतार इति वा। नारायणः- नारस्य जीवसमूहस्यायनं प्रवृत्तिर्यस्मादिति नारायणः सर्वप्रवर्तकः । लीलः



 74 b क. पिपीत्रकः कृतो
 75 c क.ङ कालहर्ता च
 15 c d क.ङ नारायणो नीलो लीलो भक्ति- </poem>