पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/७३

पुटमेतत् सुपुष्टितम्
५९
गोपालसहस्रनामस्तोत्रम्


कम्बलाश्वतरः- 'कम्बलो नागराजे स्यात्’ इति मेदिनी। अश्वतरः फाल्गुने मासि सूर्यमण्डलनिवासी कश्चन सर्प इति विशिष्टाद्वैतकोशे । एवं च तादृशसर्परूप इत्यर्थः अत्र प्रतीयते । रामः -- दाशरथिः । रामायणप्रवर्तकः--गमायणस्य प्रेरकः नायकः वाल्मीकिरूपेण रामायणं प्रवर्तयतीति वा। द्यौः धुलोकनिवासः । दिवः दिवसः द्युलोकस्य प्रकाशकः। दिव्यः- दिवि अप्राकृतलोके भवः परमव्योमनिलयः । 'यो अस्याध्यक्षः परमे व्योमन् ' इति श्रुतिः । भव्यः ---- कल्याणस्वरूपः ।भावी --भावः भक्तजनेषु सद्बुद्धिः अस्यास्तीति भावी । भयापहः -- सर्वेषां प्रपन्नानां भयमपहन्तीति भयापहः ।  'सकृदेव प्रपन्नाय तवास्मीति च याचते ।  अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ।' {[right|(रा. 6-18-3३)}} ॥इति रामयणे ॥ ॥ ७९॥


 पार्वतीभाग्यसहितो भर्ता लक्ष्मीविलासवान् ।
 विलासी साहसी सर्वो गर्वो गर्वितलोचनः ॥ ८० ॥

 पार्वत्याः भाग्येन कारणभू्तेन सह वर्तमानो यो भर्ता शिवः तत्स्वरूपः। लक्ष्मीविलासवान् - लक्ष्म्याः यो विलासः शृङ्गारभावजचेष्टाविशेषः तत्पात्रभूतः। लक्ष्म्या सह विलासोऽस्येति वा विलासी -- लक्ष्मीविषये गोपीविषये वा तादृशचेष्टावान् । साहसी--- शत्रुषु दण्डधरः । 'साहसं तु समो दण्डः' इत्यमरः । सर्वो सर्व: प्रपञ्चः शरीरतया अस्यास्तीति सर्वो । गर्वो- अहङ्कारवान् । असतां गर्वो निरसनीयतया अस्यास्तीति वा । गर्वितलोचनः संजातगर्वे सर्वोत्कृष्टे लोचने यस्य सः । 'तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी ( छां.1-1-0) इति श्रुतिप्रसिद्धत्वात् ॥ ८० ॥