पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/७५

पुटमेतत् सुपुष्टितम्
६१
गोपालसहस्रनामस्तोत्रम्


धातुः । पाण्डुः -- शुभ्रः । अर्जुनवल्लभः - अर्जुनस्य पार्थस्य वल्लभः प्रियः । अर्जुनः प्रियः यः यस्येति वा । ललिता-ईप्सिता 'लल ईप्सायाम् । इति धातोः तृच् । भक्तान् प्राप्तुमिच्छतीति तादृशः । चन्द्रिकामाली- चन्द्रिका मल्लिकापुष्पं तद्ग्रथिता माला धार्यत्वेन यस्य सः। माली- माला वैजयन्तीमाला अस्यास्तीति माली। मालाम्वुजाश्रयः- पद्ममालाधारी- ॥८२॥


 अम्बुजाक्षो महायज्ञः दक्षः चिन्तामणिः प्रभुः।
 मणिर्दिनमणिश्चैव केदारो बदरीश्रयः ॥ ८३ ॥

 अम्बुजाक्षः --- अम्बुजे पद्मे इव अक्षिणी नेत्रे यस्य सः पुण्डरीकदलामलायतेक्षणः । अम्बुजायां लक्ष्म्यां अक्षिणी यस्येति वा । महायज्ञः- महान्तः यज्ञाः आराधनरूपा यस्य सः । महायज्ञसमाराध्य इत्यर्थः। दक्षः- सर्वकर्माणि शीघ्रकारी समर्थः । 'दक्ष वृद्धौ शीघ्रार्थे च' जगद्रूपेण वर्धमानो वा। चिन्तामणिः-चिन्तामणिरिव चिन्तितसकलपुरुषार्थपदः । प्रभुः- भोगापवर्गादिफलप्रदानसमर्थः । मणिः- मणिरिव द्योतमानः सर्वश्रेष्ठो वा । दिनमणिः - सूर्यः । कोटिसूर्यप्रकाशः । केदार:- केदारनिवासी । के जले शङ्खासुरं दारयति नाशयतीति वा केदारः बदरीश्रयः -- बदरिकाश्रमनिवासी नारायणः ।। ८३ ॥


 बदरीवनसंप्रीतः व्यासः सत्यवतीसृतः ।
 अमरारिनिहन्ता च सुधासिन्धुविधूदयः ॥ ८४ ॥

 बदरीवनसंप्रीतः व्यासः - बदरीमिश्रे वने प्रीतिमान् यः व्यासमुनिः तत्स्वरूपः । सत्यवतीसुतः -- सत्यवत्याः पुत्रः । इदमपि व्यासस्य विशेषणम् ।


  83 a..ख घ ङ.महायक्ष:
  83 b .ङ चिन्तामणिप्रभुः
  84 d ख. सिन्धुर्विधुदयः </poem>