पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/८०

पुटमेतत् सुपुष्टितम्
६६
गोपालसहस्रानामस्तोत्रम्


सङ्कर्षणः - संहारसमये चिदचितां कर्षणात् सङ्कर्षणः । शम्भुः-शं सुखं भवत्यस्मादिति शम्भुः। भूतनाथ:-- भूतानामीश्वरः। दिवस्पति:- स्वर्गलोकाधिपतिः ॥ ९१ ॥

 

 अव्ययः सर्वधर्मज्ञः निर्मलो निरुपद्रवः ।
 निर्वाणनायको नित्यो नीलजीमूतसंनिभः ॥ १२ ॥

यस्य स्वरूपं गुणो विभवो वा न कदापि प्रच्यवते सोऽव्ययः । निर्विकार इति यावत् । सर्वधर्मज्ञः:--सर्वान् धर्मान् जानातीति । निर्मल: दोषरहितः । निरुपद्रवः- इतरकर्तृकपीडारहितः । निर्वाणनायकः -- निर्वाणं सुखं मोक्षः तस्य नायकः प्रापकः । 'णीञ् प्रापणे'। 'अमृतस्यैष सेतुः' (मु. 1-2-5,6) इति श्रुतेः । नित्यः उत्पत्तिविनाशरहितः । नीलजीमूतसनिभः -- नीलमेघसदृशः ॥ ९२ ॥


 कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः।
 हृषीकेशः पीतवासा वसुदेवप्रियात्मजः ॥ ९३ ॥

 कलाक्षय: - षोडशकलानां निवासभूतः। 'श्रि निवासगत्योः ।। सर्वज्ञः .. सामान्यतो विशेषतश्च सर्वं जानातीति तादृशः। 'य: सर्वज्ञः सर्ववित्' (बृ. 1-1-9) इति श्रुतिः । कमलारूपतत्परः- कमलायाः लक्ष्म्याः यत रूपं आकृतिः तत्र तत्परः आसक्तः। हषीकेशः -- इन्द्रियाणां नियामकः । पीतवासा: ---पीताम्बरः । वसुदेवप्रियात्मजः-- वसुदेवस्य प्रीतिपात्रभूतः पुत्रः । वसुदेवप्रियायाः देवक्या आत्मज इति वा । देवकीगर्भसम्भूतः ॥ ९३ ।।


 नन्दगोपकुमारार्यः नवनीताशनो विभुः ।
 पुराणपुरुषः श्रेष्ठः शङ्खपाणिः सुविक्रमः ॥ ९४ ॥



  92 c d नित्योऽनिलजीमूत.
  94 b ख घ.नवनीताशनः प्रभुः