पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/८२

पुटमेतत् सुपुष्टितम्
६८
गोपालसहस्रनामस्तोत्रम्

चतुरः । तृणावान्तकः-तृणावर्तनामकासुरसंहारकः। भीमसाहसी- भयङ्करसाहसकर्मकर्ता । भीमवत् बलिष्ठ इति वा। बहुविक्रमः विपुलपराक्रमशाली, विविधपराक्रमशाली वा ॥ ९६ ॥

 

 शकटासुरसंहारी बकासुरविनाशनः ।
 धेनुकासुरसंहारी पूतनारिर्नृकेसरी ॥ ९७ ॥

 शकटासुरसंहारी-शकटरूपेण प्रादुर्भूतस्यासुरस्य संहर्ता । बकासुरविनाशन:-बकरूपेण आविर्भूतस्यासुरस्य हन्ता। धेनुकासुरसंहारी-- धेनुकनामकस्यासुरस्य संहारकः । पूतनारि - - पूतनायाः शत्रुः । एते वृत्तान्ताः भागवते प्रसिद्धाः। नृकेसरी-नरश्रेष्टः । 'उत्तिष्ठ नरशार्दूलकर्तव्यं दैवमाह्णिकम् ॥ ९७ ॥


 पितामहो गुरुत्साक्षात् प्रत्यगात्मा सदा शिवः ।
 अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्धनः ॥ १८ ॥

 पितामहः-चतुर्मुखरूपः । साक्षातगुरु:--मुख्यगुरुः । पितामहाय चतुर्मुख्याय प्रथमतः वेदोपदेष्टृरत्वात् साक्षात् गुरुः विष्णुः। 'यो ब्रह्माणं विदधाति पूर्वं यो वेदांश्च प्रहिणोति तस्मै' (श्वे. 6-18) इति श्रुतेः । प्रत्यगात्मा --- स्वस्मै स्वयं प्रकाशमानः आत्मा: सदाशिवः: सर्वदाकल्याणः । अप्रमेय:---स्वरूपेण गुणैश्चापरिच्छेद्यः । 'त्वमप्रमेयश्च दुरासदश्च (रा .4-24. ?) इति रामायणे । प्रभु:--- प्रभवत्यस्मात् सर्वं जगदिति प्रभुः । नितान्तकान्तरूपतया सर्वहृदयहरणं प्रभवति समर्थ इति वा प्रभुः । 'रामः कमलपत्राक्षः सर्वसत्त्वमनोहर:’ । इति (रा. 5-35-8) रामायणे। प्राज्ञः- प्रकृष्टज्ञानवान् । ज्ञाने प्रकर्षश्च सर्वविषयकत्वम् । सर्वज्ञ इत्यर्थः ।



 97 c ख.घ. धेनुकासुरसङ्घातः
 98 a. ख ङ. गुरुः साक्षी
 98 c ख. अप्रमेयप्रभुः
  c d क. प्राज्ञः प्रतर्क्य: