पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/८४

पुटमेतत् सुपुष्टितम्
७०
गोपालसहस्रनामस्तोत्रम्



 क्षीराब्धिशयनो धाता लक्ष्मीवाल्लक्ष्मणाग्रजः ।
 घात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥ १०० ॥

 क्षीराब्धौ क्षीरसमुद्रे शेते इति क्षीराब्धिशयनः। 'एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः’ । धाता- सर्वजगत्स्रष्टा । 'धाता यथापूर्वमकल्पयत् । । लक्ष्मीवान् - लक्ष्म्या नित्ययोगवान् । नित्ययोगे मतुप् । लक्ष्मीर्हि भगवतो वक्षसि नित्यं संनिहिता। लक्ष्मणाग्रजः जा--लक्ष्मणस्य पूर्वजो भ्राता । 'रामानुजं लक्ष्मणपूर्वजं च' इति रामायणे । घात्रिपतिः- धात्र्याः सकललोकमातुः लक्ष्म्याः पतिः भर्ता। 'घात्री जनन्यामलकीवसुमृत्युपमातृषु' इति मेदिनी । अमेयात्मा--- अपरिच्छेद्यस्वरूपः । चन्द्रशेखरपूजितः परमशिवेन पूजितः ॥ १० ॥


 लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः ।
 कोटिमन्मथसौन्दर्यः जगन्मोहनविग्रहः ॥ १०१ ॥

 लोकसाक्षी--- लोकवृत्तं सर्वमपि साक्षात पश्यतीति । जगच्चक्षुः- चक्षुर्वत् सर्वं जगत् पश्यतीति । पुण्यचारितकीर्तन: -- पुण्यं पावनं चारित्रकीर्तनं यस्य सः । यस्य भगवतः चरित्रकीर्तनं परमपावनं पुण्यजनकं च भवति सः।

 'वासुदेवकप्प्रसन्नः पुरुषांस्त्रीन् पुनाति हि।  वक्तारं पृच्छकं श्रोतॄन् तत्पादसलिलं यथा ॥'

इति भागवते (१०-१-१६)। कोटिमन्मथसौन्दर्यः--कोटिसङ्ख्याक्रमन्मथानां यत्सौन्दर्यं स्यात तादृशसौन्दर्ययुक्तः। जगन्मोहनविग्रहः जगतः सर्वस्य मोहजनको विग्रहो यस्य सः। यदीयशरीरदर्शनेन मुग्धः सर्वो जनः अन्यत् किमपि न जानाति तादृशः ।

 'मणिविडम्बिनि तस्य मनोहरे वपुषि मग्नमना मुनिमण्डली।  जपममुञ्चत होमममुञ्चत व्रतममुञ्चत वेदममुञ्चत ॥'

इति हि तद्विग्रहः वर्ण्यते पुराणादिषु ॥ १०१ ॥