पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/९०

पुटमेतत् सुपुष्टितम्
७६
गोपालसहस्रनामस्तोत्रम्

कारः रामकृष्णादिदेहः यस्य सः। सहस्रषोडशस्त्रीशः-पोडशसहस्रसङ्ग्याकस्त्रीयां. पतिः ।अयं वृतान्त: मागवते एकोनषष्ठितमेऽध्याये द्रष्टव्यः । भोगमोक्षैकदायकः-भोगस्य ऐहिकामुष्मिकसुखानुभवस्य मोक्षस्य चैकः मुख्यः दायकः दाता ॥ ११५॥


 वेदान्तवेद्यः संवेद्यो वैद्यो ब्रह्माण्डनायकः ।
 गौवर्धनघरो नाथः सर्वजीवदयापरः ॥ ११६ ॥

 वेदान्तवेद्यः---वेदान्तैः उपनिषद्भिः वेद्यः ज्ञेयः । ’तं त्वौपनिषदं पुरुषं पृच्छामि' इति श्रुतेः। संवेद्यः-निःश्रेयसार्थिभिः सम्यक् ज्ञातुमर्हः । वैद्यः-सर्वाः विद्याः वेद जानातीति वैद्यः। विद्याशब्दात् ’तदधीते’ तद्वेद' (पा.सू. 4-2-59) इत्यण् । धन्वन्तरिरूपो वा । ब्रह्माण्डनायक:- ब्रह्माण्डानामीश्वरः । गोवर्धनधर:- गोवर्धनाख्यं पर्वतं इन्द्रकृतवृष्टेसकाशात् गवां गोपालानां च रक्षार्थं छतरूपेण धृतवान् । नाथ:--- सर्वस्वामी। सर्पजीवदयापर:- सर्वेषु जीवेषु दयातिशयवान् । सर्वजीवानां दुःखापकरणेच्छुः ॥ ११६ ॥


 मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः ।
 सर्वज्ञः सर्वसुलभः सर्वशास्तविशारदः ।। ११७ ॥

 मूर्तिमान् -- परव्यूहादिप्रशस्तरूपवान् । सर्वभूतात्मा- सर्वेषां भूतानामात्मा अन्त:प्रविश्य नियन्ता । 'अन्तः पविष्टः शास्ता जनानां सर्वात्मा' (तै.आरण्य.11-20) इति श्रुतेः । आर्तत्राणपरायणःआर्तानां दुःखपीडितानां जन्तूनां त्राणे रक्षणे परायणः आसक्तिमान् । 'सर्वज्ञ:सामान्यतो विशेषतश्च सर्वं वा जानातीति । सर्वसुलभ:--- सर्वेषां सुलभः लब्धुं j शक्यः । यथा अनर्षः मूल्याभासेन लभ्येत तथा अतिमहानपि उपायाभासेन 16b.ख. घ----ब्रह्म