पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/९१

पुटमेतत् सुपुष्टितम्
७७
गोपालसहस्रनामस्तोत्रम्


नामसङ्कीर्तनादिनापि लब्धुं शक्यः । पत्रपुष्पफलादिर्भिवा भक्तिमात्रसमर्पितैः सुखेन लभ्यः।

 'पत्रेषु पुष्पेषु फलेषु तोयेष्वक्रीतलभ्येषु सदैव सत्सु ।  भक्त्येकलभ्ये पुरुषे पुराणे मुक्त्यै कथं न क्रियते प्रयत्नः ॥'

(गरुडपुराणे ।-227-33)। सर्वशास्त्रविशारदः- सर्वेषु शास्त्रेषु निष्णातः! सान्दीपिनेः गुरोः सकाशे सर्वाणि शास्त्राणि अधिजगे हि श्रीकृष्णः ॥११७॥


 षड्गुणैश्चर्यसम्पन्नः पूर्णकामो धुरन्धरः ।
 महानुभावः कैवल्यदायको लोकनायकः ॥ ११८ ॥

 षड्गुणैश्चर्यसम्पन्नः--षड्गुणरूपं यदैश्वर्यं ईश्वरस्वभावः तत्सम्पन्न:। ज्ञानशक्तिबलैश्चर्यवीर्यतेजांसि षड्गुणाः । षड्गुणैः अष्टेश्वर्यैश्च सम्पन्न इति वा। पूर्णकाम:- स्वत एवावाप्तसमस्तकामः । सदा अभिमतसकलभोगोपकरणसम्पनः । धुरन्धरः - सकलपाणिनां जगतां च जन्मस्थितिलयरूपं धुरं वहतीति तादृशः । महानुभावः --महान् लाघनीयः अनुभावः प्रभावः यस्य सः। कैवल्यदायक - मोक्षप्रदः । 'मोक्षमिच्छेज्जनार्दनात्’ ।। लोकनायक:- सर्वेषां लोकानां नाथः । 'लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति । (रा. 4.4-18) ॥ ११८ ॥


 आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः ।
 असमानः समस्तात्मा शरणागतवत्सलः ॥ ११९ ॥

आदिमध्यान्तरहितः-आदिः मध्यमन्तश्च एतैर्विरहितः सततैकस्वरूप इत्यर्थः। शुद्धसात्त्विकविग्रहः -- शुद्धसत्त्वमयाप्राकृतमूर्तिमान् । 'न तस्य प्राकृता मूर्तिः मांसमेदोऽस्थिसम्भवा’ ।। 'न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः। इति च : असमानः-न विद्यते समानो यस्य सः । ths cd क.. मल्थनाएको लोक-



 118 cd क ङ कैवल्यनायको लोक-
 119 c ख असमानसमस्तात्मा