पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/९८

पुटमेतत् सुपुष्टितम्
८४
गोपालसहस्रनामस्तोत्रम्


आनन्दो न स्यात् । (तै.आन.7) इति श्रुतेः। समस्तसर्वभावज्ञः समस्तानां प्रणिनां ये सर्वे भाषा: हृद्गताः अभिप्रायाः तान् जानातीति तादृशः। गोपिकाप्राणवल्लभः --- गोपस्त्रीणां प्राणवत् प्रियः ॥ १३३ ॥


 नित्योत्सवो नित्यसौख्यो नित्यश्रीनित्यमङ्गलः ।
 व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥ १३४ ॥

 नित्यमुत्सवः यस्य सः नित्योत्सवः । नित्यं सौख्यं सुख यस्य सः नित्यसौख्यःनित्यश्री:- नित्या श्रीर्यस्य सः । नित्यैश्चर्यः । लक्ष्म्या नित्ययोगवानिति वा । नित्यमङ्गल: सर्वदा कल्याणः । व्यूहार्चितः वासुदेवसङ्कर्षणादिव्यूहरूपेण भक्तैः पूजितः।

 कर्तव्यत्वेन वै यत्र चातुरात्म्यमुपास्यते'

इति पौष्करसंहितायाम् । जगन्नाथः -- जगतां स्वामी अधिपतिः । श्रीवैकुण्ठपुराधिपः-श्रीवैकुण्ठाख्यस्याप्राकृतनगर्याः अधिपतिः ।। १३४ ॥


पूर्णानन्दघनीभूतः गोपवेषधरो हरिः।
कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥ १३५ ॥

 पूर्णानन्दघनीभूतः --- परिपूर्णेनानन्देन व्याप्तः । आनन्दांशलेशरहितत्वं घनीभूतत्वम् । गोपवेषधर:-गोपालाकृतिधर्ता । हरिः-- भक्तिमतां हृदयं हरतीति हरिः। कलापकुसुमश्याम:-कलापपुष्पवत् श्यामवर्णः। कोमलः -- सुकुमारशरीरः । मृदुस्वभाव इति वा । शान्तविग्रहः शान्तस्वरूपः विषयसुखेप्वसङ्गः । 'निष्कलं निष्क्रियं शान्तम्' (श्वे.6-19) इति श्रुतेः । सत्यपि समुद्रेकहेतो माहात्म्यसमुद्रे निस्तरङ्गसमुद्रवत् अनुद्रिक्तस्वरूप इति वा ॥ १३५॥


 गोपाङ्गनावृतोऽनन्तो वृन्दावनसमाश्रयः ।
 वेणुवादरतः श्रेष्ठो देवानां हितकारकः ॥ १३६ ॥