ननयो रुभयोरुपादानं पुनरुक्तिर्दोषइति नैव शङ्कयम्। श्रीर्मुखं
प्रधानं यस्मिन्नानने इत्यर्थप्रतीतेस्तदुपादानं सफलम्। श्रीमदानन
मेवाननमितरत्त्वाननमपि कुत्सिताननमेवेति भावः॥ १७ ॥ अ-
ह्नि भवान् काननमटति, यत्तेनास्माकं का क्षतिः, कापि नास्ति।
अस्माकमाननम्पश्य। त्वाम्विनापिकुटिलकुन्तलं श्रीमुखमेवास्ति।
तां तव प्रियां त्वामात्मानमपि, हे अ! वासुदेव, त्वमेव पश्य।
एतेन न युवयोर्वयं किङ्कर्यः। न युवयोः पश्चाद्वयं गच्छामः। स्व-
रक्षां स्वयंकुरुः, इत्याशयः। त्वामपश्यतामस्माकं त्रुटिरेव केवलं
युगायते। अन्या कापि क्षतिर्न परन्तु न केवलमस्माकमेव त्रुटियुर्
गायते किन्तु ते तुभ्यमपि त्रुटिर्युगायते।एतत्तु तवास्माकं!समान-
मेव। भवान् जडोऽसि मूर्खोऽसि नैव विचारयसीति भावः!
उत्तरार्द्धस्थतेशब्दान्वयं विहाय युगायेत्येकं चतुर्थ्यन्तमाश्रित्य
त्रुटिर्युगाय कल्पते इत्यर्थोऽस्तु वा। गम्यमानक्रियाया अपि
कारकविभक्तिप्रयोजकत्वोक्तेः क्लृपि सम्पद्यमाने चेति चतुर्थी-
प्रशक्तेः। उदीक्षतास्माकं पक्ष्मकृत्त्वं जड एव 'यतो वेत्या'-दि-
श्रु त्या सर्वकारणत्वस्य त्वय्येव प्रतिपत्तेरिति परमार्थः। यदि
तु अस्माकं दृशां पक्ष्मकृत् पक्षमच्छेदकः स्यात्तर्हि अजडः स्या-
द्विद्वान् स्यादिति भावः। कृञ् हिंसायम् ॥ १८ ॥ यद्वा युगाय
मिथुनाय ते तुभ्यं त्रुटिरपि युगायते।अहो युवयोः परस्परं प्रेमे-
त्यर्थः ॥ १६ ॥ यद्वा उदीक्षतां दशामित्यनेन परस्परमीक्षतामि-
त्यर्थपरत्वस्यापि प्रतीतेस्तवदृशोः पक्ष्मकर्ता ब्रह्मदेवो जड
इत्यपि प्रतीयते ॥२०॥ यद्वा नामैकदेशन्यायेन तिशब्देन युवति
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१००
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
गोपीगीता-