टिर्युगायते। अस्मिन्पक्षे कुन्तलपदेनचूर्णकुन्तलग्रहणं विनापीत्या-
दिना चूर्णपदलोपात्। एतादृशं सुकुमारतरं स्वमुखमविचार-
यन् मुखं मलिनीकर्तुं वनमटति, अतो मूर्खः। दृशां पश्मकृद् ब्रह्म
देवस्तु अजडः, अयम्भावः। यदि पक्ष्माणि न स्युस्तर्हि अव्यव-
धानेन मूर्खकपटिमुखदर्शनम्भवेत्, तत्त नैव योग्यम्। तस्मान्नि-
मेषमात्रेणैव दर्शनविघटनाय दृशाम्पक्ष्माणि रचयामास। अतोऽ
जड़ः। पतेन निमेषपर्यन्तमेव स्वन्मुखं न पश्यामः ॥२५।। यद्वा
अस्मिन्पक्षे चूर्णपदलोपो मास्तु। कुन्तपदेन प्रासएवास्तु। तथा
च कुन्तं प्रासं लाति गृह्णातीति कुन्तलस्तम्। एतच्च युष्मदो
विशेषणमस्तु। कुन्तलं त्वामित्यन्वयः। यो हि वनमटति स व्या-
घ्रादिभयात्प्रासं गृहीत्वैवाटतीत्यनवद्यम्। 'प्रासस्तुकुन्त' इत्य
मरः ॥२६॥ यद्वा भवानित्यत्र भवेति पृथक्, अन्निति पृथक्,
अनितीत्या तत्सम्बुद्धौ हे अन्!, अनप्राणने विजन्तो न तु
क्विवन्तः। अनुनासिकस्यक्वीतिदीर्धापत्तेः। नङिसम्बुद्धयो-
रिति नलोपाभावः। हे अन्! सर्वजीवप्राण! हे सूत्रात्मन्! अस्मिन्-
पक्षे नुडभावस्तु नित्यग्रहणस्य व्यवस्थितविभाषाश्रयणात्॥२७॥
यद्वा क्विपि दीर्घे आनित्वेवच्छेदोऽस्तु तथा च ह्रस्वात्परत्वाभा
वान्नुट प्राप्तिरेव न,अर्थस्तु तुल्यः॥२८॥यद्वा पूर्वोपस्थितनिमित्त
कत्वेनान्तरङ्गत्वासवर्णदीर्घे ह्रस्वात्परत्वाभावेन नुटोऽप्राप्तेर्विच्
पक्षेपिनुटःप्राप्तिरेव नेतिबोध्यम्।अहःपदमहिम्ना सुषुप्तावात्मना
सह सम्पन्नो भवतीति सूच्यते। अहः पदं जाग्रदवस्थासूचकम्,
काननम् दुर्ज्ञेयत्वाद् गहनत्वाञ्चशरीरलक्षणं विपिनं भवानटति।
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०५
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
गोपीगीतार्थकौमुदोसहिता-