पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
गोपीगीता-


सूत्रात्मा शरीरजीवनाथशरीरमेवाटति। त्रुटिः सूत्रात्मविच्छेदो युगायते। तस्मात्त्वं भव, आत्मधारणं कुरु,इत्याशिषं प्रयुञ्जते। सन्निहितो भव वा, तव विच्छेदो मा भवत्वित्यर्थः। विधौप्रार्थने वा लोट्। भवेति पक्षे हे देवेति सम्बोधनम्वा, अयम्भावः। कदाचिद्रोगादिना क्षणं प्राणपीडापि युगायते, त्वां सूत्रात्मान मपश्यतामस्माकं कुटिलकुन्तल श्रीमुखञ्च काननं कुत्सिताननं भवति। ते तव तादृशं मुखञ्च कुत्सिताननं भवति। यदास्माकं मुखं काननं तदा तथापि तथेति परस्परानुरागो व्यज्यते, अयम्भावः। यदा विराड् देहे सूत्रात्मप्रवेशस्तदैव विराडुत्यानं श्रूयते। 'नोदतिष्ठत्तदाविराट्, चितेन हृदयं चैत्य उदतिष्ठत्तदा विरा'-डिति। श्रत उभयोःप्रेमेति १२९॥ यद्वा भवानह्निकाननमटति, यत्तस्मात्ते कुटिलकुन्तलं श्रीमुखं च काननं कुत्सिताननं भवति। काननाटनशालिनो मुखं सुन्दरमपि काननं कुत्सिताननं भवति,लोकैरनुभूतमेवैतत्। तव वैरूप्यं सम्पन्नं बालभावान्नैव विचारयसि अतस्त्वं जडोऽतऊर्ध्वं भवान् काननं नैवाटतु;। इति भयं प्रदर्श्य काननाटनं निवारयन्ति। शेष विशेषणंयथायथं योज्यम्॥३०॥यद्वा हे क! हे ब्रह्म देव! एतेन नन्दसूनोर्ब्रह्मदेवावतारत्वम्। कुटिलकुन्तलं श्रीमुखमाननं काननं कर्तुं मलिनीकर्तुं काननं वनं भवानटति। ब्रह्मलोकम्विहाय मनुष्यरूपी सन् काननमटति; अतो ब्रह्मलोकनिवासिनां त्वाम पश्यतां मुखं काननं मलिनं भवति। त्वामपश्यतां ब्रह्मलोक निवासिनां त्रुटिर्युगायते॥३१॥ यद्वा भवानित्यत्र हे भवेत्ये कम्पदं