सम्बोधनम्,अन्नित्येकं सम्बोधनम्। हेभव! महादेव भवो देवः
संसारश्चेत्युक्तेः। 'भवोभीम' इत्यमरः। अनिति सूत्रात्मरूपेण
जीवयतीत्यन् काननं हिमवत्पर्वतवनमटति, तत्रैवशेतेऽतो गि
रिशेति तन्नाम। शिवो हि वनमेवाटति। अतःकाशीपुर्यप्यानन्द
काननत्वेन प्रसिद्धिंगता ॥३॥यद्वा पितृवनं श्मशानमेवाटति,अतः
श्मशानवासीति पदेन कथ्यते, सम्बोधनद्वयेन शिवत्वं सूत्रात्मत्वं
च सूचितम्। सूत्रात्मत्वपक्षे काननपदेन शरीररात्मकं विपिन
प्रकरणबलाद्बोध्यम्। सर्वजीवनाय कायलक्षणं काननमटति,
यत्तस्माद्भवेत्याशिषं प्रयुञ्जते। त्वामित्यत्र वा आमितिच्छेदः,
त्वामस्त्वादेशः, त्वात्वामपश्यतां त्रुटिर्युगायते। आमित्यङ्गीकारे
वयमङ्गीकुर्मः। भवानप्यङ्गीकुरुतामित्यर्थः ॥ ३३॥ यद्वा भवं
महादेवमानयति जीवयतीतिभवा, तत्सम्बुद्धौभवान् अयम्भावः।
यदा भस्मासुराय वरं महादेवो ददौ तदा सोऽसुरः पार्वतीहर्त्तु -
मना महादेवमूर्ध्निस्वहस्तनिधानेन तं भस्मीकर्त्तुमियेष। तम्बुद्ध्वा
वृद्धब्राह्मणरूपं विधाय श्रीनारायणः पथि स्थितः सन्नसुरेणानु-
धावितं महादेवं ररक्ष। कूटवचसाऽसुरहस्तमसुरस्यैव मूर्न्द्धि
निधाप्य भस्मीचकारेति कथानुसन्धेया। एतेन महादेवोऽपि भव.
तैव जीवित इति सम्बोधनार्थः। अतएव भातीति भवान्,
प्रकासमान इत्यर्थः ॥ ३४॥यद्वा भवं संसारमानयनि जीवयती-
ति सम्बोधनार्थः। अत्र मानम् 'यतोवेत्या'-दिश्रुतयः ॥ ३५॥
यद्वा हे भव! हे अन्निति सम्बोधनद्वयम्। काननं वनमट
ति सति अट गतौ। शत्रन्तात्सप्तम्येकवचनान्तम्। त्वयीति
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०७
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
गोपीगीतार्थकौमुदीसहिता-