रहसि सम्विदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् ॥
वृहदुरः श्रियो वीक्ष्य धामते
मुहुरतिस्पृहा मुह्यते मनः ॥ १७॥
रहसीति। यद्वारहसि ह्रच्छ योदयम्। सर्वेषाम्प्राणिनांह्रदिमनसि शेते हृच्छयः, सर्वान्तर्यामिकूटस्थस्तस्योदयम्। हृदुधुभ्यांचेति बाधित्वाशयवासेति पक्षे सप्तम्यालुक्। सम्बिदं x चितं + ब्रह्मज्ञानमिति यावत्। तच्च रहस्येवापदिश्यते। प्रहसिताननम् पूर्वोक्तविहरणम्। प्रेमवीक्षणमपि तदेव। तब वृहदुरो वीक्ष्य श्रिय इति शसा अनेकाः श्रियः प्रतिपादिताः। ते धाम तेजोगृहा- दीन्वीक्ष्य 'गृहदेहत्विट्प्रभावा धामानी'-त्यमरः। शेष रूपष्टम्। अपूर्ववस्तुदर्शने सर्वेषां चित्तमोहन प्रसिद्धमेव ॥६॥ यद्वा अमुहु रेकवार मतिस्पृहा भवति पश्चासु मन एव मुह्यति ॥ २ ॥ यद्वा अमेति सम्बोधनम्। न विद्यते मा माता यस्य सस्तत्सम्बो- धनम्। एतेनाजत्याद्यशोदा न तव मातेति सूचितम् ॥३॥ यद्वा लक्ष्मी शून्य इदानीं रुक्मिणी नास्तीति भावः। मा प्रमाणं वा। विभुत्वान्न तव प्रमाणमिति स्तुतिः ॥ ४॥ यद्वा त्वयि प्रमाणं नास्ति, मया सह रंस्यध्व इति प्रतिज्ञाय पलायितः। 'मा मातरि
* कूटस्थस्यतवउदयं प्रादुभाम्। x स्त्रासम्विदित्यमरः।
+चित्लस्विदित्यमरः।