'अभावे नह्यनोनापी'-त्यमरः। मुह्येति पृथक् ते इति पृथक् अ
इति पृथक् हे अ! वासुदेव,हे अतिस्पृह! अतिक्रान्तस्पृह,अमुह्य,
मोहं मा कुरु इत्यर्थः। सर्वजोवनिवासस्यातिकान्तस्पृहस्य
मोहनमनुचितमिति यावत्। वयन्तु अतिस्पृहाः अतिक्रान्त-
स्पृहाः, अतो नः अस्मान् अम आह्वानं कुरु, सम्भक्तिं कुरु वा,
त्वं सस्पृहः वयन्तु अस्पृहाः। अतो जितेन्द्रिया योगिन्यः तस्माद
स्मद्भक्तिं कुरु इति तात्पर्यार्थः। अम गत्यादौ। लोण्मध्यम
पुरुषैकवचनान्तः। तेमुहुरित्यत्र ते अमुहुः इतिच्छेदः। तत्रत्यः
अ शब्दो वासुदेवार्थः ॥६॥ यद्वा ते उरो बृहत् कपाटवक्षास्त्वम्
तथा धाम गृहादि बृहत् प्रेम वृहत् मनो बृहत् न तु तुच्छम्
कृपणम्; उदारमना इत्यर्थः। वीक्षणं बृहत् प्रहसिताननं बृहत् एवं
संविदादिपक्षेऽपि विभक्तिव्यत्यासेनार्थः। तथाहि स्त्री
सम्विदित्यमरात्सम्विच्छब्दस्य स्त्रीत्वम्, तस्मात् रहसि बृहतीं
सम्विदं बृहन्तं हृच्छयोदयं स्पृहाबृहती ताम्वीक्ष्येति
विभक्तिविपरिणामः ॥ १० ॥ यद्वा बहुवचनान्तः स्पृहाः, वृहती-
स्तव स्पृहा वीक्ष्य अनेकास्तवाकाङ्क्षाः, इत्थं करिष्यामीन्यादि
बृहतीः श्रियो वीक्ष्य तव श्रीर्नेका, अपि तु बहुधा एवेति
शसा लभ्यते। एतत्सर्वं वीक्ष्य अस्माकं मनः अतिमुह्यति।
'छन्दसिव्यवहिताश्चेति व्यवहितस्यातेर्मुह्यतिनान्वयः ॥१॥
यद्वा अतिशब्दस्य उरआदिभिरन्वयः अतिबृहदुरो वीक्ष्ये-
त्यर्थः। एवमुत्तरत्राप्यतेरन्वयः 'महत्यपी त्यमरः। वाचिचे.
तिबिश्वाद्वागुरः श्रिय इत्यर्थः ॥१२॥ यद्वा हृच्छयेत्येकम्प-
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११६
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
गोपीगीता-