पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
गोपीगीतार्थकौमुदीसहिता-


दम्। हे सर्वान्तर्यामिन्! ॥ १३ ॥ यद्वा अस्माकं हृदये उरसि भवाञ्छेते। तात्स्थ्यात्तच्छब्दव्यवहाराद्धृत्पदेनोरसोऽध्यवसाय: ॥१४ायद्वा प्रहसितेत्येकं सम्बोधनम्। प्रकृष्टं हसितं यस्येति तथा। शेषं द्वितीयान्तम्वीक्ष्यपदेनान्वेति ॥१५॥ यद्वा हृदि शयः पाणिर्यस्य तर सम्बोधनम्, हे हृच्छय! अस्मान् स्मरन् अनुरागा. तिशयेन हृदयं पाणिना पीडयन् रोदितीति भावः। शोका विष्टस्यायं स्वभावः। 'शयः पाणिः' इत्यमरः॥ १६ ॥ यद्वा रहसि हृच्छयोदयं वीक्ष्य मनो मुह्यते। कस्मिन् समये यशोदाया भवान् प्रादुर्भूतः कैरप्यज्ञातः, अतो रहसि तवोदय इति भावः।सर्वान्त' र्यामित्वाद्धृच्छयः। हृच्छयेतिपृथक् सम्बोधनम्। विशिष्टमेक- पदंवास्तु ॥१६॥ यद्वा धामते इत्येकं सम्बोधनम्। दधातीति धाः सा मतिर्यस्यतत्सम्बोधनम्। सर्वविद्याधारणशालिबुद्धिमा नित्यर्थः ॥ १७ ॥

 व्रजवनौकसां व्यक्तिरङ्ग ते

  बृजिनहन्त्र्यलं विश्वमङ्गलम्।

 त्यज मनाक च नस्त्वत्स्पृहात्मनां

  स्वजनहृदुजां यन्निषूदनम् ॥१८॥

 ब्रजेति । यद्वा वृजिनहन्निति सम्बोधनम् । बिजन्तो हन धातुर्नक्विवन्तः। ब्रह्मभ्रूणे-ति नियमात्। 'अन्येभ्योऽपिदृश्यन्ते। इति कालसामान्यविचा त्रिकालपापनाशकत्वम्भगवति प्रति.