पद्ये ह्रिय इत्यस्य पञ्चम्यन्तत्वपक्षेषष्ठया आनर्थक्यम्,षष्ठ्यन्तत्व-
पक्षे पञ्चम्या आनर्थक्यं स्यात् । तस्मात्सङ्कीर्णश्लेषे पक्षेऽन्वयेन
सार्थक्यमिति पूज्यपादाः। एतच्च विभक्तिश्लेषोदाहरणम्। सङ्कीर्ण
वर्गे प्रकृतिप्रत्ययार्थाद्यलैिङ्गोहस्तथार्थसौन्दर्यबलात्पदं विभज्यार्थो
बोद्धव्यः । एकदेशान्वयोऽपि न दोषमावहति । नानार्थजचमत्कार-
बलादेकदेशान्वयस्यादूषितत्वात् नहि तदेकदेशत्वेनापिव्यवह्रियते
भिन्नस्यापि पदत्वात् । किञ्च नित्यसाकाङ्क्षितार्थस्यैकदेशवा-
च्यस्याप्यन्वयस्य पूर्वाचार्यश्रेण्यारूढत्वात् । देवदत्तस्य गुरुकुल-
मिति वत्। किञ्च गमकत्वात्समास इति सिद्धान्तादेतादृशसमास-
“स्थलेऽपि समासोपपत्तेः । गमकत्वञ्च वृत्तिविग्रहयोः समानो-
पस्थितिजनकत्यम् । तेन शिवमागवत इति सिद्धमिति दिक् । एवं
"दशैतेराजमातङ्गास्तस्यैवामी तुरङ्गमाः” इत्यत्र तत्पदेन समासनि-
विष्टराजपदार्थस्य परामर्शः।किञ्च"एत्येधत्यूठ'इत्यत्र समस्य-
मानपदान्तर्गताभ्यामेत्येधतिभ्यामेवैजादित्वं संबध्यते न तु
विशिष्टेन । किञ्चैकदेशे स्वरितत्वप्रतिज्ञायैकदेशान्वयोऽप्याचार्य-
सम्मतः।एवं दृशिग्रहणादनेकंकार्यं निर्वहन्त्याचार्याः कुत्रचिद्योग-
विभागेनापि नहि साकल्येन परिष्कर्तुमीशते । कार्यनिर्वाहायैवा-
नेकं पन्थानमारोहन्ति । एवमालङ्कारिका अपि-अर्थसौन्दर्यबलेन
गूढश्लेषः आक्षिप्तश्लेषः अभूतोपमा इत्यादिनाममात्रं सङ्कीर्त-
यन्ति । न तु साकल्येन परिस्कारम्प्रदर्श्य व्यवस्थापयन्ति । अत्र
पूज्यपादानामयमभिसन्धिः। त्रिविधश्लेषस्य यत्र प्रवेशस्तत्र
सङ्कीर्णश्लेषव्यवहारः। शब्दैक्येऽपि, एकवृन्तगतफलद्वयन्यायेनार्थ.
।
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२
एतत् पृष्ठम् परिष्कृतम् अस्ति
८
उपोद्घातः-