पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
गोपीगीतार्थकौमुदीसहिता-


सम्बोधनम्, ब्रजे वनति सम्भक्तिङ्करोतीति व्रजवन। व्रजे सम्भक्तिकर्ता भवान्। अन्येतु गोपजातीया:सम्भक्तिं नैव कुर्वन्ती- ति भावः। वनसम्भक्तौ पचाद्यजन्तः॥३७॥यद्वा व्रजे वनं गृहं यस्य वनशब्दार्थकोशास्तृतीयार्थे प्रदर्शिताः। ओकसामितित्वत्स्पृहा- त्मनामित्यस्यविशेषणमस्तु। वयं ते ओकांस्येव गृहाण्येव 'न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते' इति न्यायात् 'ओकः सद्मे-त्यादिकोशानुसारेणार्थाः कल्पनीयाः। एतादृशीनांनोड- स्माकं व्यक्तिः।ते वृजिनहन्त्री दुःखपापहन्त्री अलम्, विश्वमङ्गलं च, स्त्रियोऽन्तरेण गृहिणां सुखं कुतः तथैव मङ्गलमपि न। वयं मङ्गलमित्युक्तया सधवा वयमिति प्रतीयते। विधवास्त्वमङ्गल मेवेति तात्पर्यम्। विश्वपदेन सर्वत्र मङ्गलत्वम्। स्वस्यमङ्गलत्व बोधनद्वारा ब्रह्मत्वम्प्रतिपादितम्। तथा च श्रुतिः "अशुभा- निनिराचष्टे तनोति शुभसन्ततिम्, स्मृतिमात्रेण यत्पुंसां ब्रह्मतन्मङ्गलम् परम्' इति। किञ्च विः पक्षी श्वा कुक्कुरः। एतावपि मङ्गलम् तयोरपि मङ्गलम् वयमेवेति भावः ॥ ३८॥ यद्वा विश्वं जगत् अङ्गलम्, अङ्गमवयवं लाति गृहातीत्यङ्गलम्, अतो निषूदनम्, भावल्युडन्तम्। एतेन जगत् नश्वरम् सावयवत्वात्, घटवदित्यनुमानं दर्शितम्। तथा च नश्चरे जगति कर्त्तव्यं किमपिनास्तीति वैराग्यं सूचितम्। यदि- ति हेतुपरः। वैराग्योदयाद्धेतोर्ह्र'द्रुजां तापत्रयस्य निषूदनम् अत्यन्तं नाशो भवति, सति वैराग्ये प्रकृतिलयः, तदुक्तम् कापिले। 'वैराग्यात् प्रकृतिलय' इति। अद्वैतमतेऽपि