कर्मणीतिचेन्नानेक प्रतिपत्तेर्दर्शनात् इति सूत्रेण जैमिनिमतं खण्ड-
यामास, अयम्भावः। एकस्मिन्दिने क्रियमाणेष्वनेकयागेषु एक-
स्येन्द्रस्य गमनासम्भवात्कर्मानुष्ठानविरोधान्मूर्तिमती देवता
नास्ति। मन्त्र एव देवतेतिजैमिनिराद्धान्तस्तु न श्रेयान्। योगिना-
मिव देवतानामपि योगवलेनानेकशरीरधारणस्य पुराणादिषु
प्रसिद्धर्मूर्तिमद्देवताभ्युपगमेऽपि न कर्मानुष्ठानविरोध इति
बादरायणाभिप्रायः। एवं जडस्य स्वतः प्रवृत्तिसिद्धये बत्सवि
वृद्धिनिमित्तमिति कापिलो दृष्टान्तोऽपि 'पयोऽम्बुवच्चेत्तत्रापि' इति
सूत्रेणखण्डयामास! एतत्सर्वबुद्धितारतम्यादेवेति बुद्धि स्तुतिः।
दधीमहीत्यपिच्छान्दसप्रयोगः। एतेनाध्यायोऽयं गायत्र्यर्थप्रति-
पादको नतु शृङ्गारपर इति सूचितम्। गोपी पदार्थोपि न जातिपर
इत्युपपादितम्। एतत्सवमया बादरायणतात्पर्यम्बुद्ध्वा यथामति
ब्रह्मपरतया व्यारव्यातम् ॥ ३॥ यद्वा प्रियान् शब्दादिविषयान्
द्यति खएडयतीति प्रियद। भवत्प्रसादादेव विषयेषु वैराग्यम्॥४॥
यद्वा विषयभोगदातापि त्वमेव,त्वया दत्तमेव भुज्यते ईशावास्य'-
मितिश्रुतेः ॥५॥ यद्वा असुजातेति पृथक् सम्बोधनम्। असुभ्यः
प्राणभ्यो जातो न तु योनित इति भावः ॥ ६॥ यद्वा यद्यस्मात्-
कारणाद्भयनिवर्तकत्वाद्धेतोर्भिता: संसारभीतास्ते नारदादयः
स्तनेषु सत्सु देवशब्देषु सत्सुतेतव सुजातचरणाम्बुरुहमभजन्निति
शेषः। अयम्भावः। दासीपुत्रत्वे भजन्तं भगवद्धयाननिष्ठं नारदम्प्रति
देववाण्यभूदिति कथाऽनुसन्धेया, तस्मात्संसारभीता वयमि-
त्यादि योज्यम्। स्तन देवशब्दे पचाद्यजन्तः ॥ ७ ॥ यद्वा
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२८
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
गोपीगीता-