सुजातेति सम्बोधनम्। महाकुले भवतोजनिरतो भवान् सुजातः
मत्स्याद्यवतारे तु तिर्यग्योनित्वादसुजातेति सम्बोधनम् ॥८॥
यद्वा हेधीर्भवदायुषां, भवत्येवायुर्यासान्ता भवदायुषस्तासां
भवदायुषाम्। बुद्धिरेवास्माकमायुः। विना बुद्धया जीवनं व्यर्थः
मिति भावः। नो धीर्बुद्धिर्भ्रमति कुत्रेति चेत्, कूर्पाहिभिरित्यु-
क्तमर्थ बुद्धिब्रुवत्यो विलपन्ति। 'बुद्धिनाशात्प्रणश्यति, बुद्धि
र्बुद्धिमतामस्मि' इत्यादि बहुशस्तव प्रशंसा श्रूयते। अतो भ्रमं
त्यक्त्वा प्रमावती भवेति गोपीवचनम्। तच्छ्रूत्वा
व्यथते। अ न इतिच्छेदः, अशब्दोनिषेधार्थः। इति कृत्वा गोपी:
प्रतिः धीर्वक्ति। चरणाम्बुरुहमित्यत्रसाधारणधर्मप्रयोगाभावादु-
पमितसमासाश्रयणं भवतु, तत्र च विशेष्यप्राधान्याच्चरण-
मेव प्रधानं भवेत्। तस्य चाम्बुरुहमिव कोमलतरत्वाभावे
नाटवीभ्रमणसामर्थ्यमस्त्येवेति न तद्व्यथतेक्षा अस्मिन्विषये भवती-
भिर्भ्रमो न कर्तव्य इति धीरुत्तरयति ॥६॥ यद्वा सुजातपदमेव
साधारणधर्मवाचकमित्यभ्युपगम्य मयूरव्यंसकादिसमासेऽपि
पङ्कजस्याटवीप्रभवत्वात्कार्यकारणयोरभेदोपचारादटव्यटने न
तद्व्यथेति x बुद्धरभिप्रायः॥१०॥ यद्वा भ्रमतीन्यत्र भ्रमेति पृथक्
*अत्र साधारणधर्मो गम्य एव तथाचार्थवशादम्बुरुहमपि नाल- कण्टकव्याप्तमेव सत् न ब्यथते। कठोरत्वात् एवं चरणमपि यथाम्बुरुहं न कोमलं तथा वरणमपीति भावः।
*विषयिणोऽम्बुरुहस्य चरणस्वरूपतयाष्टव्यटनत्वनिर्वाहकत्वेनपरि. णामालङ्क तिवलादेतत्पक्षेपिन तद्व्यथेत्यपि धियोऽभिप्रायः। अम्बुरुहा. णि अटव्यामेवोत्पद्यन्ते न तु गृहे इति पर्यवसितार्थः।