पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
उपोद्घातः-


श्लेषः स इति यावदिति पूज्यपादमतम्। तस्माद्गोपीगीतार्थ- प्रतिपादकपदमनन्तार्थपरं न कमपि दोषमावहति। कदाचित्सत्य- प्येकदेशाद्यन्वयदोषे स दोषो न दोषायालम्। सकृन्नामोच्चारण- मात्रेणानन्तजन्मदुष्कृतिर्नश्यति। "हरिस्मृतिः सर्वविपद्विमो- क्षणम्” इति दर्शनात्। एकार्थज्ञानेनानेकजन्मकलुषं नश्यत्येव, अने- कार्थप्रतिपादनन्तु मुहुर्मुहुः स्वकौतुकायैव तस्मादधिकमित्य- त्राधिकमित्येकम्पदन्तदन्तर्गतमधीत्यपि पदं कमित्यपि पदं, एतेषामर्थसौन्दर्यबलादुक्तन्यायेन श्लेषः संकीर्णश्लेषः, अलमधिकेन।

 अत्रविचारो विराजते।"तथा हि जन्यं निसृजन" इति भीष्म- वर्णने स्वामिभिर्जन्यपदार्थप्रदर्शनं कर्त्तव्यमपि नैव प्रादर्शि। कथङ्कारं स्वल्पधीभिरस्माभिस्तदर्थो ज्ञातव्यः। कोषावलोकनेऽपि 'युद्धमायोधनं जन्यम्' इत्येव दृश्यते, कौमुदीपर्यालोचनेऽपि जन्यं युद्धमित्येव दृश्यते। एवं सति युद्धं त्यजनित्यर्थःप्रतीयेत। युद्धन्तु पूर्वमेव तत्याज। नहि विरुद्धमर्थङ्कर्तुङ्कोऽपीष्टे। तस्माट्टीकां कुर्वाणा अपि स्वयं जानन्तोऽप्युल्लङ्ध्य गच्छन्ति । 'परोपकाराय सतां विभूतयः इति न्यायं न स्मरन्ति जनेरौणादिकयकि ये विभाषा इत्य त्वविकल्पेजन्यम्। जायते प्रादुर्भवतीति जन्यं शरीरम्।यौगि- कोऽयमिति नैव लिलिखुः।अस्मच्छिरसिधुरंस्थापयामासुः,तस्माट्टी. काकारसहायमात्रेणार्थो नैव सर्वत्र सम्पद्यते। किन्तु योग्यताका- ङ्क्षादिभिरेव शक्तिग्राहकैः पदार्थो विवेचनीयः। टीकयते पदार्था-