न्नपुंसकत्वं द्वितीयैकवचनान्तत्वं चेति । सुजातचरणाम्बुरुहंस्त.
नेषु शनैर्भीताः भियो भयादिता गता भीता भयरहिताः
सत्यः दधीमहि, भयराहित्ये काम एव हेतुः। पदार्थहेतुकं काव्य-
लिङ्गम् । कामाधीनेऽपि शनैर्भीताः कामाभावे तु सुतरां भय-
युक्ता एव सत्यः कर्कशेषु कठोरेषु स्तनेषु कुचेषु दधीमही-
त्यर्थः । तादृशं कोमलतरं चरणं कामाधीनत्वादेव कठोरेषु
स्तनेषु मन्थरं भयरहिताः सत्यो दधीमहि । कामेन विना तु
कथं दधीमहीति भावः ॥ १०॥ यद्वा स्तनेषु देवशब्देषु सत्सु,
स्तन देवशब्दे पचाद्यजन्तः, अयम्भावः । यदा कंशो देवक्यु-
द्वाहे पथि प्रग्रहं जग्राह तत एनं देववागुवाच 'अस्यास्त्वा
मष्टमो गर्भ' इत्यादि, पुनः किं मया हतया मन्देत्यादि च
देवशब्दा बभूवुः। ततो नन्दनन्दनं लोकोत्तरं त्वामीश्वरं मन्य-
मानास्तवचरणं दधीमहि । कुत्रेति चेत्स्तनेषु स्तनाधारहृदयेषु
कार्यकारणयोरभेदाध्यवसायास्तनशब्देन हृदयाध्यवसायः। कर्क-
शेष्वित्यनेन स्त्रीहृदयस्य कठोरत्वम्प्रतिपादनीयम्प्रतिपादितम्भ-
वति तदुक्तम्, 'हदयंक्षुरधाराभम् इति। स्त्रीहृदयस्य क्षुरधाराभत्व
बोधनायैव विधाता तद्धृदयोपरि नीलचूचुको कुचौ ससर्ज ।
स्मरणेऽपि तव पादयोर्व्यथास्यादिति भयेन शनैः स्मराम इति
तात्पर्यम् । भवदायुषामितिपदेन त्वयि धृतासव इति वद्वि-
वर्त्तवादो दर्शितः ॥ १९ ॥ यद्वा असुजातेति पृथक्सम्बोधनम् ।
असवः प्राणा जाता येन सोऽसुजातस्तत्सम्बोधनम् । त्वदधीना
एव प्राणिनाम्प्राणा इत्यर्थः। तथा च श्रुतिः, 'यतोवेत्यादि,
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१३२
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
गोपीगीता-