पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
गोपीगीतार्थकौमुदीसहिता-


येन जातानि जीवन्ति' इति। अत एव भवदायुषामित्युक्तम्। 'पुंसि भूम्न्यसवः प्राणाः' इत्यमरः ॥ २०॥ यतो वेत्यादिश्रु. त्युक्तमर्थमेव 'अहं सर्वस्य प्रभवो मत्तः सर्वम्प्रवर्त्तते, यश्चापि सर्वभूतानां बीजं तदहमर्जुन, न तदस्ति विना यत्स्यान्मया भूतं चराचरम्' इत्यादिना भगवाननुवदति। अत्रायं विवेकः। तथाहि विवर्त्तवादेऽपि अधिष्ठानप्रत्यक्षापेक्षा अधिष्ठानारोप्यमाणयो समानधर्मप्रत्यक्षापेक्षा। ततश्चाधिष्ठानधर्माज्ञानापेक्षा च तत एवारोपः। रज्जुसर्पादावेतत्सर्वसामग्री सम्पन्ना भवेत्, ब्रह्म. ण्यारोप्यमाणे जगति तु नैव सामग्री सम्पन्ना। अधिष्ठा- नस्य ब्रह्मण एवाप्रत्यक्षत्वात्तस्मादोश्वरेण मायाविनिर्मित सम्बन्धं पश्येत्यर्थकेन विवर्त्तवादं निषेधता। 'न च मत्स्थानि भूतानि पश्य मे योगमैश्वर'-मिति गीतावाक्येन सत्त्वासत्त्वाभ्याम- निर्वचनीयमायाकृतमेव जानीहीति भगवतात्पर्यम्॥२१॥ यद्वा असु जेति पृथक् पदं सम्बोधनम्, पित्रोः प्राणोत्पन्नेत्यर्थः। हे अ! वासुदेव, हे त! चोर, मायापहारक, अस्मद्दुकूलापहारक वा। हे च! आह्लादकत्वाच्चन्द्र हे र! हे जाठराग्ने! हे ण! हे वराह! एष्व- र्थेषु कोशा उक्ता एव उल्लेखः। अस्मिन्पक्षेऽम्बुरुहपदेन चरण- निवारणाद्रूपकातिशयोक्तिः। अस्मिन्नुपसंहारश्लोकेऽनेकसम्बोधन- मेव युक्तम् । तेन सुतरां भगवद्वर्णनं वणितं भवति ॥२२॥


 *भनेकलीलावतारप्रदर्शनेन 'लोकवस्तुकीलाकैवल्य-मिति ब्रह्मसूत्र समन्वयो दर्शितः।