पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
गोपीगीता-


शृङ्गारन्दर्शयन् व्यासो ब्रह्मतत्त्वं निरूपयन्। संसारिणो दुःखसिन्धो रुद्दधार दयापरः ॥ १ ॥ शृङ्गारो रोचते यस्मै तस्मै गोपीस्तुतिः सुखम् ॥ वैराग्यं रोचते यस्मै तस्मै माया स्तुतिः सुखम् ॥२॥ उभावर्थौ सङ्गृहीतावध्याये चाधिकारिणः ॥ तारतम्यादुभावर्थौ प्रकाशेते सुचिन्तनात् ॥३॥ गोपीमण्डलमध्यस्थो रासोन्मुखचतुर्भुजः॥ चतुर्वर्गेषु मुख्यं मेदे. हि त्वं भवरोगिणे ॥ ४ ॥ अयमत्र सङ्ग्रहः। साधारणस्त्री- वाचकपदम्विहाय मायाशक्तिबोधकगोपीपदं दर्शयन् सर्वो. त्कर्षत्वेन ब्रह्मबोधकजयतिपदं परमप्रेमास्पदबोधकं दयितपदं मोक्षलक्ष्मीधामबोधकमिन्दिरापदञ्च लिखन् बादरायणस्त्वयि धृतासव इत्यनेन जगदुपादानत्वञ्च स्पष्टीकुर्वन्नुपक्रमे श्रीनन्द- नन्दनस्य साक्षाद्ब्रह्मतत्त्वप्रतिपादकमुपक्रमंदर्शयामास ।तथाऽन्ते च गायत्रीघटकधीमहिपदं लिखन्नुपसंहारादिना च ब्रह्मपरत्व- मेवेति स्पष्टं प्रतिपादयामास। तदुक्तम् 'उपक्रमोपसंहारावभ्या- सोऽपूर्वता फलम्, अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये' इति मदुक्तार्थविशेषतस्तात्पर्य निर्णयलिङ्गभूतहेतोः स्पष्टप्रतिपत्तेः। अभ्यासादयोऽपि प्रतिश्लोकं स्फुटा एवेति मात्सर्यमुत्सार्य श्रीनन्दनन्दनपादसरोजदत्तमानसः सहर्षमेषा।


 *गोपीपदस्यमायापरत्वंपूर्वमुक्तम्।

(१) गृहदेहत्विट्प्रभावाधामानीत्यमरः। एतच्च १।३४ अर्थेस्पष्टम्।