पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
गोपीगीतार्थकौमुदीहसंहिता-


दर्शनीया विवृतिरिति बद्धाञ्जलिर्नतशिरा उमानाथशर्मा श्री- विदुषो मुहुर्मुहुः प्रार्थये। 'दोषाविद्यमानेऽपि शङ्कितुः शङ्कते मनः, यथा रज्जो सर्पबुद्धिर्जायतेऽतत्त्ववेदिनः'। तद्दुक्तम् । अर्थह्यविद्यमानेऽपि संसृतिर्न निवर्तते, ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा, गच्छतस्खलनं क्वापि भवत्येव प्र. मादतः, हसन्ति दुर्जनास्तत्र समादधति सज्जनाः। इति न्यायमाकलयन्तो मयि कृपामादधाना इमेऽर्थाः सब्जाघटति वा न वेति विद्वांसएवाकलयन्तु। श्रीधरस्वामिप्रभृतिपूज्यादै- श्चर्चित्वाऽऽस्वाद्य सारभूतार्थाः प्रदर्शिताः मया तु विघसवन्म- न्यमानेन तदुच्छिष्टार्थं सङ्कलयता रासक्रीडोन्मुखश्रीनन्दनन्दन कृपाकटाक्षलेशपाततः सङ्ग्रहीताः। स्वकौतूहलायैव न तु पर प्रतिपत्यै, यतः श्रीकृष्णचरित्रस्मरणेनैव दुःखत्रितयं निहन्तुकामो न तु विद्वत्तादर्शनेन धनकीर्तिप्राप्तुमनाः नापि परोपकृतितत्पर- चेताः; यतो न क्लिष्टार्थप्रतिपत्तये जनः प्रवर्तते अक्के चेत्'इति न्यायात् चूर्णिकादिसरलविवृतेरेव लोककार्यस्य निर्वाह्यत्वात्। तस्मात् केवलस्वदुःखनिवृत्तय इति सूरतैरहं विचारणीय इति प्रव्यक्तमेवाचक्षे। हल्लीसकक्रीडनतत्परस्य श्रियःपतेःपादमहं स्मरन्मे। कर्ह्येमि पारं भवदुःखसिन्धोस्तर्ह्येव लीना + असवो भवेयुः ॥ १ ॥ विष्णो न दाषाय पराङ्गनायां क्रीडा त्वमे- कादशहायनोऽसि। नानेककामाचरणस्यभङ्गः प्रभो भवान्नो उपनीत एव। रासक्रीडनं नाम हल्लीसकक्रीडनम्। एकस्यपुंसो बहुभिः स्त्रीभिः क्रोडनं सैव रासक्रीडा। 'गोपीनांमण्डले


 तत्यप्रागा उत्क्रामन्ति अत्रैव समवलीयन्ते ॥ इति ते :