पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
गोपीगीता-


नृत्यबन्धे हल्लीसकं विदुः इति कोशात्। तल्लक्षणन्तु 'पृथु' सुवृत्तं मसृणं बितस्विमात्रोन्नतं कौ विनिखन्य शङ्कुम्। आक्रम्य पद्- भ्यामितरेतरन्तु हस्तैर्भ्रमोऽयं खलु रासगोष्ठो ॥१॥ श्री५ मन्ने-पालसम्राजां गीर्वाणयुद्धविक्रम साहदेवानां पुरोधःकुलावतं- समय श्रीमद्यदुनाथसूरिसूनोः श्रीरामनाथशर्मणः पौत्रो ब्रह्म- नाथशर्मणः पुत्रो नेपालाभिजन आर्ज्यालोपनामकः श्रीकाशी- वासी गतसप्ततिहायन आधिव्याधिव्याकुलचेता, उज्झितधना- र्जनोपायो यथालाभेन सन्तुष्यन्मुमुक्षुः श्रीकृष्णचरणाध्यानतत्पर- चेता उमानाथशर्मा ब्रह्मपरतया यथामति अनेकार्थान् प्रकल्प्य गोपीगीतार्थविवरणं विधाय रासक्रीडानर्त्तनतत्परयोः श्रीन- न्दनन्दन पादयोः समार्पयम्। सम्वत् १९८५ बैक्रमेऽक्षय्यतृतीयायां रविवासरे समपद्यतायं लेखः शुभम्। रसिकसूरयः पश्यत ध्रुवं प्रतिपदं कुतश्चार्थसञ्चयः ॥ अजनि भो कृपापूर्णमानसा भवति वा न वा ब्रूत मां वचः ॥ १ ॥ वपुषि मे सदा व्याधिसञ्चयो हरिमयं भजन् सन्तरीष्यति 11 प्रचुरकष्टतश्चार्थ सञ्चयोऽजनि कृपाभराच्छ्रीमतः प्रभोः ।।२ ॥


  (३) रसिकेति उन्नन्तम्। नासौ गुणवाचकोऽपि तु शृङ्गारादिवाचक- श्रतो रसादित्वान्नमतुपू।