जयति । भवज्जमनः पूर्वन्तु अयं घोष न तु
अस्योत्कर्षः।इदानीन्तु भवज्जन्मनैव तुच्छोऽपि व्रजःसर्वोत्कर्षण
वर्तते इत्यर्थः॥२॥यद्वा जयत्यर्थेन नमस्कार आक्षिप्यते । सः एतं
नमस्कुर्वन्तीत्यर्थः ॥२॥ यद्वा स एव व्रजः तपसा पावनत्वादिना
च कं ब्रह्माणमा अधिव्याप्य अधिकं जयति । काकाक्षिगोलक-
न्यायेन देहलीदीपिकान्यायेन वा आङ उभयत्र संबन्धः । यद्वा
द्वौ पाडौ प्रश्लिष्य तयोर्मध्ये एकस्य कम्पदेनान्वयः।आङ-अभि-
व्याप्तौ ॥ ३॥ यद्वा कस्य ब्रह्मणः समीपे स्थितं लोक + मधिकं
जयति । सामीप्येऽव्यीयभावः । अन्तर्भावितण्यर्थो जयतिः
सकर्मकः यद्वा-अभिभवार्थकजिधातुः सकर्मकोऽ-
स्तु । अभिभवश्च प्रकृते न्यूनीकरणम् । शत्रुञ्जयतीतिवत् ॥४॥
यद्वा अधिकमिति व्रजविशेषणमस्तु । भवज्जन्मना तादृगपि व्रजो
ब्रह्मलोक एवाभूदित्यर्थः । अतएव जयति, इत्यभिप्रायः॥५॥ यद्वा
निश्चलत्वाद् व्यापकत्वाव्रजति इत्यव्रजः ना पुमान् सर्वव्यापी
*यद्वा-पदार्थस्तु यद्यस्मात्कारणाज्ञानार्थकशब्दोपादानात् यच्छब्दोऽ- व्ययं हेत्वर्थकः । यत्तद्यतस्ततो हेतावित्यमरः । वाशब्दोऽर्थविकल्प- बोधकः । तया च मानार्थकशब्द प्रतिपाद्य प्राक्तनटीकाकृदुपेक्षितनाना- थप्रतिपादनमित्यर्थः ।
परिनिष्ठित विभक्त्या समासाभिप्रायेण लोकमिति द्वितीयानिर्देश: पर्यध्यधसः सामीप्ये इति सूत्र, अधिः समोपववनः । अध्ययानामनेका- र्थत्वमिति च।