पुरुषो भवान् अधि अधिकं यथा स्यात्तथा कंब्रह्माणं जयति।अधि-
कमिति, एकं पदमस्तु वा तदन्तर्वार्तिकं शब्दं पृथक्कृत्यार्थो योजनी
यः। एतादृशस्यापि ते जन्म ॥ ६॥ यद्वा जन्मना ना पुमान् सन्
जयति भवान्। स्त्रीजन्मतः पुरुषजन्मनः श्रेष्ठत्वादिति सङ्कीर्णश्लेषः
एतत्पक्षे जि जये अकर्मकः ॥ ७॥ यद्वा ते जन्म अधिकं जयति
अतः अव्रजोऽपि ना त्वं दुष्टनिग्रहार्थं जन्म श्रय गृहाण।ते इन्दिरा
इत्यादिशेषपदं यथायोग्यं योजनीयम् ॥ ८॥ यद्वा अ हे वासुदेव
त्रायते त्र,सद्रक्षक पचाद्यजन्तस्त्रैङ्धातुः तस्मात्सम्बुद्धौ नपुंस-
कह्रस्वत्वे साधु यो ब्रह्माणं विदधाति'इत्यादिश्रुत्या ब्रह्मणो जग-
दुपादानत्वप्रतिपादनात् तद्विशेष्यतापर्यान्नपुंसकत्वम्, एतेन
श्रीकृष्णावतारस्य साक्षाद् ब्रह्मपरत्वं प्रतिपादनीयं प्रतिपादि-
तम्भवति ॥९॥ यद्वा अत्र इत्येव सम्बोधनमस्तु अं वासुदेवं
त्रायते इति अत्र तत्सम्बोधनम्। एवं च आतोऽनुपसर्गेक' इति के
आलोपे च साधु वासुदेवो हि स्वमेव स्वं रक्षति, न तु तस्य
पालकान्तरमित्यद्वैतसिद्धिः। तथा च हे अत्र, इन्दिरा लक्ष्मीः
शश्वन्निरन्तरं यस्मिन्नेतादृशं ते जन्म अधिकं जयति ॥१०॥
यद्वा ते इन्दिरा जन्म व्रजश्च जयति । शेषं विशेषणं यथा-
यथं योज्यम् ॥ ११ ॥ यद्वा ब्रह्मापहृतगोगोपालादीनां पुनः पूर्व-
सदृशजन्मना कृत्वा कं ब्रह्माणं जयति ॥१२॥ यद्वा जन्मना
कृत्वा कमुद्दिश्य जयति सच्चिदानन्दरूपे भगवति उत्कर्षा-
पकर्षयोरभानात् भवान् न कस्याप्यपेक्षया जयति, इति भावः ।
जिधातोरकर्मकत्वेऽपि अन्तर्भावितण्यर्थत्वेन गम्यमानक्रियाया
.
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१९
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
गोपीगीतार्थकौमुदीसहिता--