मायामाश्रित्य ब्रह्मादीननाश्रित्यैव लोकं पालयतीति भावः । शेष
यथायथं योज्यम्॥३२॥ यद्वा व्रजोऽप्पव्रजः अयंभावः। भवज्जन्म-
तःपूर्वमेतद्गोष्ठमेवासीत् अल्पमेवासीत्, तुच्छमेवासीत्। जनाः
बिरला एवासन् इदानीन्तु तद्भिन्न एवास्ति। न तु गोष्टमेव,किन्तु
निवहो दृश्यते जनपूर्णो दृश्यते। 'गोष्ठाध्वनिवहा व्रजा' इत्यमरः
अध्वा एव जातो वा पूर्वमत्राध्वा एव न इदानीन्तु अध्वा एव
जात इत्यर्थः । न विद्यते व्रजः अध्वा यस्मिन्नेतादृशोऽपि इदानी-
मध्वा एव जात इत्यभिप्रायः ॥ ३३ ॥ यद्वाअव्रजः निवहशून्यः
अद्वितीयःना भवान्जन्मनाव्रजः निवहःसद्वितीयःहस्तपादाद्यवय-
ववान् अस्ति । अधिकं जयति भवान्, ते इन्दिरा मोक्षलक्ष्मीःअत्र
त्वयि अधिकं श्रयते । अद्वयस्य इन्दिरा मोक्षलक्ष्मीरेव गोष्ठपक्षे
शोभैव भवतु ॥३४॥ यद्वा अवजो ना पुरुषो भवान् अतः
ते जन्मः अधिकं न जयति । अजादिशब्दप्रतिपाद्यस्य जन्म नैव साधु इति
भावः ॥३५॥ यद्वा अत्र व्रजे ना पुमान् अव्रजः गतिश्रून्यः उद्योगा
र्थं न देशान्तरं व्रजति, अतः इन्दिरा सम्पत् अशश्वत् निरन्तरं
नास्ति । 'उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः' इत्युक्तेः। उद्योगशून्य
जने गोष्ठे सम्पन्नास्तीति भावः ॥३६॥ यद्वा इन्दिरा लक्ष्मीरस्ति
नित्यं यस्मिन्निति इन्दिरस्तत्सम्बुद्धौ। अत्र व्रजे भवान् अश-
श्वत् श्रयते हि हेतौ यदर्थं ते जन्म । एतेन दुष्टनिग्रहार्थं ते जन्म ।
दुष्टा यत्र यत्र तत्रैवगमिष्यसि न निरन्तरमत्रश्रयते भवान्। अस्मा-
कं ना पुमान् अतोऽधिकं जयति। अतो न अव्रजः अस्मान्विहाया
न्यत्र नैवागच्छः । व्रज गतौ लङ् मध्यमपुरुषैकवचनान्तः ॥३७॥
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/२५
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
गोपीगीतार्थकौमुदीसहिता