इह तावल्लोकः स्वर्गप्राप्तय एव यतमानो दरीदृश्यते । स्वर्गस्य स्वतःपुरुषार्थत्वात् तत्त्वं चेतरेच्छानधीनेच्छाविषयत्वम् ।
नहि किञ्चिल्लब्धये स्वर्गविषयिणीच्छा भवति,अपि तु तल्लब्धय एवेतरेच्छोदेति।"यन्न दुःखेनसम्भिन्नम् इति लक्षणलक्षितः
स्वर्गः । तथा च दुःखावच्छेदकीभूतशरीरावृत्तिजातिमच्छरीरावच्छिन्नसुखत्वं स्वर्गत्वमिति पर्यवसितम्।तादृशश्च स्वर्गो नहि
यज्ञादिजन्यः क्षीणे पुण्ये मर्त्यलोकं विशन्ति इतिश्रवणात्।किन्तु
श्रीकृष्णस्मृतिलभ्य एव "हरिस्मृतिः सर्वविपद्विमोक्षणम्” इति
स्मृतेः। अजामिलोद्धारदर्शनाच्च, अजया छाग्या साकं यो मिलति
सोऽजामिलपदार्थः 'अजाच्छागी' इत्यमरः 'मिल सङ्गमे इगुपधेति
कान्तः ॥ एतादृशः कामुकशिरोमणिस्तदर्थः। सोऽपि हरिनाममहिम्ना प्रकृतिलीनोऽभूत्, मुक्तोऽभूदिति यावत् । बन्धसंसारापवर्गास्तु वस्तुतः प्रकृतिगता एव पुरुष उपचर्यन्ते । वस्तुतो नित्यमुक्त
एव पुरुषः। आत्मानं पुरुषस्य दर्शयित्वा नर्तकीव प्रकृतिर्निवर्त्तते
मुक्ता भवति, अजा विष्णुहरेत्यमरादजाभ्यां विष्णुहराभ्यां
सह आमिलतीति पश्चाल्लभ्यार्थः।तथा च हरिहराभ्यांसह सायु.
ज्योऽभूदिति । किञ्च न ह्यकिञ्चना अस्मद्विधाः श्रुतदेवादयः
कुटुम्बिनो यज्ञायालम्।तेऽपि केवलं ज्ञानयज्ञेन पत्रपुष्पादिकं श्रीकृ.