ष्णचरणयोर्भक्त्या निवेद्यैव दुःखसागरादात्मानमुद्दध्रःायतो"शानी त्वात्मैव मे मतम् । तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते” इत्यादिना ज्ञानयज्ञस्यैव प्रधानयज्ञत्वप्रतिपादनात। अत्र
प्रबन्धः । तथा हि विदेहश्रुतदेवी समानभक्तौ प्रतिदिनं तौ
विप्रवदेते। श्रीकृष्णो मद्गृहान् प्रत्येव प्रागायास्यतीति । तयोः
समानभक्तयोर्भक्त्याऽऽकृष्यमाणःश्रीकृष्णो द्वेधाऽऽत्मनो रूपं विभज्यैकस्मिन् क्षणे उभयोर्गृहाञ्जगाम । तयोर्गृहमुषित्वा सन्मार्ग:
मुपदिश्य पुनर्द्वारिकामगमत् । एतच्च एवं स्वभक्तयो राजन्' इति
श्लोकेन स्पष्टम् । पश्चान्मद्गृहं पूर्व भगवानागत इति एको
वदति। अपरोऽप्येवम्। अनयोर्विवादान्तो नाभूत्। एवमुद्धवादयोऽ.
पि ज्ञानयज्ञेन दुःखसागरपारं जग्मुः।एवं शबरीवदराण्युच्छिष्टानि
श्रीदाशरथिः स्वादुङ्कारं जघास। पवं विदुरगृहान् गच्छन् श्रीकृष्णः कदलीकल्कं स्वादुमाद न तुदुर्योधनदत्तं षड्विधमन्नं जघास
किञ्च नारायणस्यायं स्वभावः । यदि मद्भक्तः स्वल्पमप्यभिमानं कुर्यात् तर्हि पतेदिति कृपामादधानः सन्नभिमानं त्याजयति
अत्रापि प्रबन्धः। तथा हि-"श्वेतद्वीपं गतवति"इत्यस्यायं भावः।
मां विना सत्यलोके ब्रह्मवादः कदापि नैवाभूदिति नारदाभिमानं
बुद्ध्वा श्रीनारायणस्तमुक्तवान् । नारायणस्यायम्भावः। श्वेतद्वीपसमुद्रे तव पक्षिणश्च संवादोऽभूत्कति कति कल्पा व्यतीयुःन
हि
पिपासुना मयाऽऽपः पीताः । हरिनामोच्चारणभङ्गभियेति त्वां
प्रति पक्षी वृक्षशाखावलम्बी निजगाद । नहि पक्षिसमस्त्वां भक्तः।अतो विनाऽपि त्वया ब्रह्मवादोऽभूदित्यभिप्रायेण नारदाभि-
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/६
एतत् पृष्ठम् परिष्कृतम् अस्ति
२
उपोद्घात:-