सीधु इत्यत्रोत्वाभावस्तु संहिताया अविवक्षया 'वाक्ये तु सा
विवक्षामपेक्षते' इत्युक्तेः। तथा च संहिताया अविवक्षापक्षेडय
मर्थोऽपि स्यादिति मन्ये मुह्यतीरित्यत्र 'शपश्यनो' रिति
नुमभावस्तु विरहव्याकुलत्वद्योतनाय ॥ १५ ॥ यद्वा
पुष्करेक्षणेति सम्बोधनार्थस्तु। पुष्करं जलं ययोरस्तीति पुष्करे।
अर्श आद्यच् ते ईक्षिणे यस्य पुष्करेक्षण। 'पुष्करं करिहस्ता
ग्रवाद्यभाण्डमुखे जले' इत्यमरः। एतेनास्मान्विहाय पला.
यितः। पुनश्चास्मत्स्नेहाद् व्याघ्रादिभयाच्च ते अक्षिण'
नित्यमतिशयेनाश्रूणि मुञ्चत, इति गूढाभिप्रायः॥ १६ ॥ यद्वा
हे जलोत्सव! हे जलक्रीडारतेति सम्बोधनार्थः। 'कालविशेषो-
त्सवयोः क्षणः, इत्यमरः ॥ १७ ॥ यद्वा रलयोरभेदात्पुष्कले
अत्यन्तप्रशस्ये ईक्षणे यस्य सस्तत्सम्बुद्धिः श्रेयान् श्रेष्ठः पुष्कलः
स्या दित्यमरः।पुष्करे जले क्रीडार्थ ईक्षणे यस्येति व्यधिकरणब-
हुब्रीहावपि भावस्तु स एव,तदपेक्षया पृथक् पदमेव चारुाक्षण-
पदेनोत्सवस्य स्पष्टप्रतिपत्तेः ॥ १८॥ यद्वा पुष्कर कमलमाश्र-
यत्वेनास्ति यस्याः सा पुष्करा पद्मालया तस्यामीक्षणे यस्य
सस्तत्सम्बोधनम्। हे लक्ष्मीम्प्रतिदत्तनेत्र!, एतेनास्मान्प्रति नेत्रे-
अपि नैव ददासीत्यभिप्रायः॥१६॥ यद्वा पुष्कर करिहस्ताग्रे
ईक्षणे यस्य सस्तत्सम्बोधनम्। एतेन ग्राम्योवालस्त्वमदृष्ट-
पूर्वशुन्डादण्डं दृष्ट्वाचकितम्पश्यसि ग्रामीणस्यायं स्वभावः।
* पुष्कराक्षशब्दपर्यायोऽयम्पुष्करेक्षणशब्दः स च सहस्रनाम्नि पठि तस्तस्मादसौ संज्ञापर इति हलदन्तेति सप्तम्या अलुकि एकम्पदमस्तु वा।