पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
गोपीगीता-


कदाप्यदृष्टम्वस्तु दष्ट्वाश्चर्यवत्पश्यति ॥ २० ॥ पुष्करं वाद्यभाण्डमुखं वेणुमुखं तस्मिन्नीक्षणे यस्य सस्त- त्सम्बोधनम् ।वाद्यवादनशीलस्यायं स्वभावः। वाद्यमेतत्सुसम्पन्नं वा न वेति परीक्षार्थं वाद्यभाण्डाग्ग्रं पश्यति ॥ २१ ॥ यद्वा पुष्क- राणि कमलानि येषु सन्ति तानि पुष्कराणि सरांसि, तेषु ईक्षणे यस्य सस्तत्सम्बोधनम् ॥ २२ ॥ यद्वा पुष्करे व्योम्नीत्या धर्थीपि स्वयं योजनीयः ॥ २३॥ यद्वा अधरेति सम्बोधनम्। धरतीतिधरः,धृञ् धारणे पचाद्यजन्तः। न धरः अधरस्तत्सम्बो- धनम्। सुरतक्रीडायां भवान् अस्मान् न धरति, अतो युवत्यो- पि वयं ज्यायस्यो भवामः। 'असम्भोगो जरा स्त्रीणामित्युक्तेः ॥ २४ ॥ यद्वा उत्फुल्लकसलसरोदत्तनेत्र ॥ २५ ॥ यद्वा विधि- म्ब्रह्माणं दैवं वा कुर्वन्ति तच्छीलाः, कृञो हेत्वादिना टः। टिवान्ङीप् ब्रह्माणन्दैव ञ्च निर्मातु वयं शकुमः। एतेन स्वेषां प्रकृतित्वं सूचयामासुः। तथा च पुप्रकृत्योः परस्पराश्रयः प्रेमा व्यज्यते।तस्मात्'आसाम्ब्रह्ममहद्योनिरहबीजप्रदःपिते तिव्यज्यते। अतो व्यङ्गमूलो व्यङ्ग्यः। विश्वसृद्विधिः। 'विधिर्विधाने देवे पीत्यमरः ॥ २६ ॥ यद्वा नः अस्माकमधरसीधुना आप्याययस्वः आत्मानमितिशेषः। तथा च परस्परोष्ठचुम्बनोक्त्या परमकाष्ठा- पन्नत्वं रतेर्बोध्यते ॥ २७॥ यद्वा ना पुमान् भवान्। नः अस्माकमधरसीधु यथा स्यात्तथा आत्मानमाप्याययस्व॥ २८ ॥ यद्वा अ आप्याययस्वेति च्छेदः' अः निषेधार्थः।