मानं त्याजयामास । एवमजातशत्रोरपि राजसूयान्ते प्रादुर्भूताहङ्कृतिशत्रूच्छेदनाय स्वमेवाद्धहाटकमयोन्दुरू भूत्वा तत्कथया
तदहङ्कृतिं चिच्छेदेति कथानुसन्धेया। अहं त्वामयावी' यस्य त्रिंशच्छरदः श्रीवाराणस्यां कृच्छे ण व्यतीयुः। आद्वादशशरदं वृद्धकूपामृतपिबतोऽपि मे गदो नो निववृते । यतः कृच्छे णासून दधानं मां
स्वचरणसरोरुहान्तिकं सपदि नो नयति ।अतोन हि मदुपरि कृपां
सर्वशोऽपि धत्तो हरिस्तुतिं विना सोऽपि प्रसन्नोमाभूदिति मन्ये।।
अतो रासक्रीडोन्मुखं नन्दनन्दनं दयालुं स्मरंस्तन्नाममहिम्ना
संसारादात्मानमुद्धर्तुकामः केवलैकान्तभक्तिलभ्या गोपीगीतार्था यावद्वेदं यावज्जीवं तावत् स्वकौतूहलाय प्रतिपाद्यन्ते । यथाशक्ति हरिनामोच्चारणं करोमि। यदात्वशक्तः स्यां तदा तु मत्स।
मीपमागतो नन्दनन्दन एव मदुद्धाराय स्वनामोच्चारणं कुर्यादेव।
अत्र च मानम्-“अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः
प्रयाति समद्भावं याति नास्त्यत्र संशयः॥ अयमर्थः-अन्तकाले सर्व
न्द्रियाणां वैक्लव्यात् सर्वथैव स्मरणानुपपत्तौ कथं स्मरणोक्तिः
सङ्गच्छतामिति चेत्स्वास्थ्यावस्थायां मामेवाश्रित्यान्तकाले कलेवरं मुञ्चति तदा मां स्मरन्नहमेव भवामि । प्रयाण सम्मुखभक्तरक्षायै तत्समीपमागत्य मन्नामस्मरणमहमेव कुर्व इति भगवदाशयः, अत एव देवव्रतनिधनकाले तत्पुरः स्थित्वातत्कृतां स्वस्तुतिं
श्रुत्वा ततस्तदिन्द्रियवक्लव्ये स्वनाम स्वमेव स्मतुं तस्थौ। ततः
सोऽन्तःश्वासोऽभूत् । तस्मिन्नेव काले स्वनाम स्वमेव सस्मार।
अत एव भक्तः भक्तिमानित्युच्यते। भक्तस्य भक्तियस्मिन्नस्ति