सञ्जातोयस्मिस्तत्प्रहसितम्। एतच्चविहरणविशेषणम्। हसपदेन
'हसोहास्य' मित्यमरोक्तहास्यरसः। हसे हसने अवन्तः। 'स्वन-
हसोर्वेति पाणिनि प्रियप्रेमवीक्षणमित्येकम्पदम्। प्रियेषु सखिषु
प्रेमवीक्षणं यस्मिन् एतदपि तद्विशेषणम् ॥१॥ यद्वा प्रियेत्येकं
सम्बोधनम्,प्रेम्णावीनापक्षिणांमीक्षणंयस्मिन्वा विषु वा एतादृशं
वीनाम्पक्षिणां हरणं मृगया, अयम्भावः। मृगयायां हि प्रकर्षेण
हास्यरसो भवति। स्वसखेषु प्रेमपूर्वकं वीक्षणं च भवति।
निरपराधिनो वयःपक्षिणो मया वृथा लीलया हन्यन्ते इति पक्षिषु
प्रेमपूर्वकमीक्षणं च भवति। पुनराहारलुब्धाः पक्षिणोऽपि आहारा-
र्थमाहारदातारं प्रेम्णा पश्यन्ति। भवानपि तवधार्थ व्याजेनाहारं
दत्ते। इत्थं भवत आखेट इति भावः॥२॥ यद्वा विना करणेन गरु-
डेन हरणममृतपारिजातादिहरणम् ॥३॥ यद्वारहसि एकान्ते अङ्ग-
लमष्टांगयोगं लाति गृहणातीत्यङ्गुलं, ध्यानंमेकान्ते एव भवति।
'एकाकी यतचित्तात्मा' इति 'विविक्तासीन' इति स्मृतेः। तव
ध्यानमप्येतादृक्। अष्टांगयोगपूर्वकं ध्यानमित्यर्थःnायद्वा मनः
क्षोभेतिसम्बोधनम्। नः अस्माकं मनःक्षोभ।क्षुभ सचलने। णि-
जन्तादच्। या हृदिस्पृशः सम्विदस्ता यन्ति जानन्ति गोप्यः।
गत्यर्थकेण्धातोर्ज्ञानार्थत्वात्। हि हेतौ। एता गोप्यस्त्वया साकं
रहसि अपि तिष्ठन्ति, अतस्त्वत्कृतं सर्वं कार्यं जानन्तीत्यभि-
प्रायः॥५॥ यद्वा त्वया सह रहसि स्थिता या गोप्यस्ता सर्वं
तव चरित्रं जानन्तीत्यर्थः ॥६॥ यद्वा रहसि एकान्ते संविदश्चे-
तनाः 'तत्त्वमस्या' दिवाक्यजन्यशानानीति यावत्॥७॥'सम्वित्-
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७१
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
गोपीगीतार्थकौमुदीसहिता-