पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
गोपीगीता-


प्रतिपादि' त्यमरःत्वया सह रहसि स्थितायागप्यस्ताः संविदा पूर्वोक्तज्ञानानि यन्तिजानन्ति।हेकुहक! हे ना! मनः क्षोभ इति सम्बोधनम्, अयम्भावः। रहसि अपि युवतिभ्यः सुरतं नैव ददासि किन्तु ब्रह्मतत्त्वमेवोपदिशति भवान्। नहि युवतीना. मस्माकं मनो ब्रह्मतत्वज्ञाने प्रविशति अपितु सुरतावेव त्वन्तु- रहस्यपि तत्त्वमेवोपदिशसि अतो भवान् कुहकः कपटी मन: क्षोभकश्चेति प्रघट्टकार्थः॥ ८॥ यद्वा रहसि याः सम्विदः अङ्गी- काराः सम्बिदागूः प्रतिज्ञान' मित्यमरः। पुनश्च ताः ह्रदिस्पृशः चितानन्ददायिनस्ते सर्वे मनः क्षोभयन्तिहि, अयम्भावः। मया सह यदि रमेध्वं तर्हि अमूल्यरत्नादिकमल ङ्कारम्चदास्यामीत्यङ्गोकारो भवताकृतस्तत्प्राप्तिस्तुदूरापस्ता भवानपिकुत्रगतोनेवास्माभिदृश्यते।अतोभवान् कुहको नो मन क्षोभक एवेति भावः ॥ ६॥ यद्वा अङ्गलमिति ध्यानविशेषणम् अयम्भावः। भवतो ध्यानन्तु अस्माकमङ्गं लाति गृह्णातीत्येव- म्भूतमेव अस्मदङ्गविषयकध्यानमेव बकवत्करोषि न परमार्थ- ध्यानमतएव बकवद्भूत्वा ध्यानं करोषि अतः कुहकोऽसि। कस्यायुवतेः कीदृगङ्गमित्येव ध्यायसि।मनःक्षोभस्तुप्रकारद्वयेन। तथाहि कामपीडात एकः अपरस्तु बकवद्धयानं करोषि न परमस्य पुंसः, अतस्तवपरलोकोऽपि भ्रष्टः, अतो नो मन क्षोभयन्ति। चरित्राणीति शेषः ॥ १०॥ यद्वा चते इत्येकम्यदम्। चतते याचते इति चतस्तस्मिन् पचाद्यजन्तः चते याचने, ततः


 *यदायकोरुपसङ्ख्यानमितिभविष्यतिलिङ्।