स्मरतीत्यर्थः । कलियुगं पापी गृह्णाति तद्धर्मं गच्छति प्राप्नोति, अनेक कुतर्कादि करोति, अतः 'चञ्चलं हि मनः कृष्ण' इत्यादि मनोनिन्दा श्रूयते। मनो हि भवद्विषये अनेककुत कवितर्कादि कुरुते इति गूढाशयः ॥ ६ ॥ 'कलिः स्त्री कलिकायां ना सुराजिकलहे युगे' इति मेदिनी ॥१०॥ यद्वा मनः कान्तेतिएकम्पदं सम्बोधनम्, मुखमात्रेण केवलं कान्तेति न सम्बोधयामः। अपि तु मनसापीति भवान् अरण्यं गच्छति, तृणादिभिः कृत्वा नो मनः सीदति। 'इति हेतुप्रकरणप्रकर्षा- दिसमाप्तिषु' इत्यमरः। सादनम्प्रति तृणादयो हेतव इति भावः ॥११॥ यद्वा हे मनः! इति सम्बोधनम्। कान्तस्याभेदविशेषणम्। एतेन कान्तस्य दुर्जेयत्वं लक्ष्यते ॥१५॥ यद्वा हे अन्त! अन्तयति. नाशयतीत्यन्तस्तत्सम्बोधनम्,तत्करोतीति ण्यन्तात्पचाद्यच्॥१३॥ यद्वा का स्त्री त्वया साकं गच्छेत्। यतो भवानन्तपदेनसम्बोध्यः। अतो भवता साकम्वयं न गच्छाम इत्यभिप्रायः ॥ १४ ॥ यद्वा कस्यापि ब्रह्मणो भवानन्तो नाशकः ॥ १५॥ यद्वा हे कहे ब्रह्मन् हे अन्त! हे अन्तक! हे काल! इति सम्बोधनम् ॥ १६ ॥ यद्वा क्वचित्यदादेः सम्बोधनस्यापि दर्शनात् हे क! इत्यपि सम्बो. धनम्। अनन्त्ययोः किम्। हे स! इति मनोरमा तद्भाष्यं च मानम्। सर्वादिकिंशब्दोऽनिर्धारित प्रयुज्यते। भवन्तं निर्धार- यितुं नैव शक्नुम इति सम्बोधनगम्यः ॥ १७॥ यद्वा तशब्द- श्चोरपरः। हे चोर! कां स्त्रियम्प्रति भवान् गच्छति चौर्यार्थ- मिति भावः। 'तकारः कीर्शिते चौरे' इति कोशः॥ १८॥ यद्वा
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/७८
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
गोपीगीता-