पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/८

एतत् पृष्ठम् परिष्कृतम् अस्ति
उपोद्घातः-


भक्तेभक्तिर्यस्यास्ति वा तदर्थः। ये भजन्ति तु मां भक्त्या' इत्याद्य- नुसन्धेयम् किञ्च हरिनामैव परोधर्मः। अत एव श्रीरामो राज्या- भिषेकोत्सवे सर्वेभ्यःपारितोषिकं ददौ।मारुतिस्तु रामदत्तां रत्न- मालां कण्ठादाकृष्य पाषाणेनचूर्णयित्वा तदन्तरपश्यत्। श्रीरघुन- न्दनस्तादृशं कपिचापल्यंदृष्ट्वा कुतस्त्वयारत्नमाला चूर्णिते ति पप्रच्छ।सोऽपि रत्नमालाऽपि नमे परितोषायालम्, यथा रामना- मैव मे रत्नमाला भवन्नामान्यत्र लिखितानि सन्ति वा न वेति निर्णेतुमालामचूर्णयमिति निजगाद । किञ्च समुद्रसेतुबन्धने रामेणैव क्षिप्ताः पाषाणो निममज्जुः । ततो विचार्य स्वनाम लिखित्वा तानपातयत् । ततो नो निममज्जुः । ततो मत्तोऽपि मे नामैव श्रेय इति दाशरथिः स्वनाम वर्णयामास। एतत्सर्वबुवा त्यक्तसर्वपरिग्रहो यथालाभेनासून्दधानो नन्दनन्दनप्रेयसीकुटि- लवचांसि शृङ्गारपराणिब्रह्मपराएयपि वर्णयन्नहानि व्यतिया- पयामि । श्रीजयदेवादयोऽपि भक्तसत्तमा जरन्तो गीत- गोविन्दं स्वकृतिं पठन्तो गङ्गास्नानादि कर्तुमशक्नुवन्तोऽ- प्यविमुक्तक्षेत्रे निवसन्तोमुमुक्षवोमुक्ता बभूवुः।अयि विद्वांसः प्राकृतिकानर्थान् न श्रद्धयाम इत्यपि भवद्भिर्वक्तुं नोचि- तम्।श्रीधरस्वामिभिःप्रतिपादितमेव पुण्यजनकं न त्वत्प्रतिपा- दितं तथेत्यत्र का विनिगमना । कदाचिद्वयाकरणादिविरुद्धो- ऽपि स्यादित्युच्यते । स्वामिनोऽपि कृणु इत्यस्य कुरू इति पर्यायं दर्शयन्तिाधातूनामनेकार्थत्वादिति तेषामाशयः स्यात्। स्वल्पबुद्धि- ना मया न स्वकपोलकल्पिताः,किन्तु श्रुतिस्मृतिपुराणादिप्रसिद्धा