ल्पना प्रतीयते। 'रश्चरामेऽनिलेवह्ना'-विति कोशः ॥१॥ यद्वा
कामाग्निशमकं रं ज्ञानाग्निं न यच्छसि ज्ञानाग्निः सर्वकर्माणि
भस्मसात्कुरुतेऽर्जुने ति भवद्वचनाज्ज्ञानाग्निप्राप्तौसर्वकर्म भस्मी-
भूतं स्यात्तथा च कामपीडा दुःसहापि नश्यदित्यभिप्रायः ॥२॥
यद्वा नीलाश्च ते कुन्ताः कामप्रासास्तान स्वरूपेण लान्ति आ-
ददत इति नीलकुंतला स्तैश्चूर्णकुन्तले कामप्रासोक्त्या अतीव
मर्मच्छेदकत्वं प्रतीयते। प्रासा अपि नीलाः कुन्तला अपि नीला-
स्तीक्ष्णाः कुटिलाश्च, अत उभयो रभेदरूपकं तच्चानुभया-
त्मकम् ॥३॥ यद्वा कामशमका ज्ञानात्मकाः प्रासा एव तान्
लान्ति ते ज्ञानिनः तैः करणैः कृत्वा रं कामाग्निं प्रति रं ज्ञाना-
ग्नि यच्छसि अतः कामो भस्मीभवति अतः अन पुनरुदेति
ज्ञानाग्निदग्धस्य पुनरनुत्पत्तेः। स्मेति निश्चतम्। अस्मिन्ने-
वार्थे श्रीव्यासाभिप्रायः अन्यथा चूर्णकुन्तलपदम्विहाय नी-
लकुन्तलपदं साधारणं किमिति लिलेख । धूसरादिव्यावृत्तये
इत्यपि नैव वाच्यम्। धूसरचूर्णकुन्तलवन्मुखस्य वैरूप्यात्तद्द
र्शनेऽनुरागस्यैव भङ्गापत्तेः कामोत्पत्तेर्दूरापास्तत्वात्। श्यामसु-
न्दरत्वस्यैव भङ्गापत्तेश्च स्वयं कृष्णस्यालकाः कथं शुक्ला
भवेयुः। न हि किशोरावस्थस्यालकाः शुक्ला दृश्यन्ते,
*केवलं स्मरं यच्छस्यर्पयसि न तु सङ्गं ददासीति कपटस्त्वमि- तिभावः,इति स्वामिब्याख्या । न तु सङ्गं ददासीति तु क्लिप्ट कल्पना- म्बिना कथं स्फुरत। अपदच्छेदे तु तेनैव निषेधेन प्रतियोगिविधया संभो- गप्रतीतेलघुत्वम्।