रुत्वाभावोपपादनस्य सुकरत्वात् अर्थसौन्दर्यबलेनात्रैवार्थे ता-
त्पर्यानुमानस्य वक्तु शक्यत्वादिति मन्ये। 'अयस्मया' दीनीति
पाणिनिः। उभयसंशान्यपीति वक्तब्यमिति वार्तिककारः। न
कर्मधारयादिति निषेधेन वलजेव कथम्। तस्माद् बवयोरैक्य-
मादाय भिन्नपदत्वमेवचारु। यद्यपि बहुब्रीहेस्तु वलज्भवत्येव
तथा प्यर्थाननुकूलतया बहुव्रीहिपक्षस्य सुत्याज्यत्वात्। तस्मा.
दार्षत्त्वात्तस्यासार्वत्रिकत्वाच्च कर्मधारयादपिवलचमत्र गृहाण।
अतो निश्चितसाध्याभाववानित्यादि दृश्यते। लाघवमूलकोऽ-
यंन्याय इत्यादिप्रपञ्चस्तु मदीयमाथुरपञ्वलक्षणीव्याप्ति-
चन्द्रिकायां द्रष्टव्यः।
किञ्च विप्रलम्भप्रकरणे भटत्ववाचकवीरशब्दोऽपि नानु कूलस्तस्माद्विशेषेणेरयति कम्पयति सुरतेऽस्मानिति वीरः ॥१०॥ यद्वा सुरते स्वयमीर्ते गच्छति कम्यते वा एतेन सुरत- प्रवीणत्वद्वारा कम्पादिव्यभिचारो दर्शितः ॥ ११॥ यद्वा तादृशं नो वनरुहाननं मुहुः सखायं दर्शयन् अस्या ईदृशं सुन्दरमानन मित्यादि मनसि स्वस्यास्माकञ्च स्मरं यच्छसि, अस्माकमपि तादृगाननम्। कृषिगोपादोस्थितै रजोभिर्व्याप्तं यथा तवेति- भावः। 'दृशेश्चे-ति सरव्युः कर्मत्वम्। अस्मिन्पक्षे विभ्रदिति वीरविषेषणम्। स्मरं विभ स्मरं यच्छसीतिस्मरस्योभयत्रान्वयो
*किञ्च भगवति प्रयुज्यमानो वीरशब्दो न भटत्वम्प्रतिपादयति किन्तु विना स्वसख न जीवाख्येन पक्षिणा सहेत्तें गच्छति, शरीरलक्षणमेक नीडमिति वीरः द्वौ सुपर्णा वितिश्रुतेः। ,