सर्वेषामीप्सितप्रदम् ॥१॥ यद्वा प्रणतानाम्भक्तानां मुख्यो यः कामाख्यः शत्रुस्तं द्यति खण्डयतीति तथा, 'इच्छामनोभवौ कामौ' इत्यमरः। प्रणतानां * कामपीडितानामतस्तच्छान्तये भवत्पादप्रणतानां युवतीनान्तु कन्दर्पदम् सुरतदम् ४ ॥२॥ यद्वा तादृशीनामपि कामखण्डकम् अन्तर्हितत्वादिति भावः।प्रणतपदस्य पूर्वोक्तव्याख्यापिस्मर्त्तव्या।प्रकर्षण नमति प्रह्रीभवतीति प्रणतः। अकर्मकत्वात्कर्त्तरिक्तःगत्यर्थे'त्यनुशासनात् भवान्नतशिरा न तु स्तब्धः,स्तत्सम्बोधनम् हे विनीत!॥३॥ यद्वा प्रणतंकं शिरोयस्य सस्तत्सम्बोधनम् ॥४॥ यद्वा प्रणतःप्रह्रीभूतः को ब्रह्मा यस्मिन्। 'मारुते वेधसि ब्रध्ने पुंसिकः कं शिरोऽम्बुनो'-रित्यमरः|ब्रह्मस्तुतौ स्पष्टमेतत् ॥ ५ ॥ यद्वा आमदम् । आसमन्तात्सौगन्ध्येन घ्राणं मदयतीत्यामदम्। तव चरणं यतः पङ्कजमतो घ्राणं हर्षयती- त्यर्थः ॥ ६॥ यद्वा भक्तान् हर्षयति शत्रून् ग्लेपयतीत्यर्थः। मदी हर्षग्लेपनयोर्घटादित्वान्मित्वेह्रस्वः। पचाद्यजन्तः॥७॥ यद्वा आस- मन्ताद्विद्यते मा सम्पद्येषान्ते आमाः, बहुधनिनस्तान्द्यति खन्ड- यतीति आमदम्। 'आतोऽनुपसर्गे कान्तः, ॥८॥ यद्वा आस- तान्माविद्यते यस्मिन्कुले तदामं तद्ददाति इति विग्रहः विपुलस- म्पद्वत्कुल दमित्यर्थः॥९॥यद्वा आमं रोगं द्यति रवन्डयति,दो अव- खण्डने॥१०॥यद्वा दैप् शोधने,दाप्लवने वाअमरोगे घञन्तः॥१२॥
*क्यकाभिमानानामसद्यकामपीडया शब्दायमानानाम्वास्माकम्।
x कार्य कारणयोरभेदात्