सावामोऽपक्वकषाय पताऽदृशं भक्तं दायति शोधयति, तत्कषायं
दुरीकरोतीति तथा। दैप्शोधने ॥१७॥ यद्वा कं जलमासमन्ता
न्माति मिमीते प्रमाणं करोतीति कामः पर्जन्य इन्द्रः, शेषं पूर्ववत्।
अतः पद्मजेन ब्रह्मणार्चितम्, नौमीड्यत इत्यादिना ॥१८ ॥ यद्वा
पद्म शब्दोऽर्श आद्यजन्तस्तेनाब्जयोनेब्रह्मदेवस्य बोधः, तज्जेन
सनकादिना निष्कामभक्तेनार्चितम्.निष्काम भक्ता अपितवचरण
मर्चयन्तीत्यनेन चरणस्यातीव महिमेति भावः ॥१९॥ यद्वापद्म-
नामनि धिजरत्नादिनार्चितम् ॥२०॥यद्वा पद्मजालक्ष्मीस्तयार्चितम
पद्मालये पद्मगुरु पद्माशि पद्मसम्भवे, इति दर्शनात् ॥ २१ ॥ यद्वा
धरणीति सम्बोधनम्। हेगोत्रे! आपदि त्वयाऽस्माभिः सर्वैपि
ध्येयम्, अतस्तव भारमपनेप्यति ॥२२॥ यद्वा मण्डनम् चिन्त-
कयोगेश्वरहृद्भूषणम् ॥ २३॥ ननु कामपीडितानामस्माकमत-
स्तच्छान्तये भवत्पादप्रणतानामिति द्वितीयोऽर्थः कथं सङ्गच्छताम्।
नहि सुरतेनकामशान्तिः। 'नजातु कामः कामानामुपभोगेन
शाम्यति, हविषा कृष्णवर्त्त्मेव भूय एवाभिवर्धते' इत्युक्तेरिति चेत्.
सत्यम्। तस्माद्युवतिपक्षेऽपि ज्ञानोपदेशेनैव कामखण्डनत्वमु
चितम्। अत आधिहन्निति च सम्बोधनमतीव युज्यते। नहि
ज्ञानम्बिनाऽधयो नश्यन्ति। अत्रार्थेरमणपदञ्चानुकूलम्। आपदि
*कदिकारादक्तिन इति डीविकल्पः। डीपन्तपक्षेसाधु। यद्वा सङ्खचक्रादिलाञ्छितपादन्यासेन त्वमपि लाञ्छिता सती सुन्दरी भवसि अतस्ते मण्डनम् ,तथास्माभिरपि कुचयोर्घार्यमाणं सन्मण्डनमिति भावः।