ध्येयमित्यन्तेन पूर्वार्द्धे पश्चार्द्धे शन्तममित्यन्तेन चरणविशेष-
णेन नैवसाधारणरमणबोधः, किन्तु आत्मारामस्यैव बोधः। अ-
स्मिन्पक्षे स्तनेष्विति नोपयुज्यते इति तु न वक्तव्यम् । स्तना
इषवो बाणा यस्य हृदस्तदिति बहुव्रीहिः, अधिकरणत्वस्थापि
कर्मत्वविवक्षायां द्वितीया| हृद उत्पन्नाः कुचास्तस्यैव भेदका
इषवः| कुचैरेव करणैस्तत्रानेके आधयः अस्माकमतीव,
मनोहरकुचान् पश्यन् भवानात्मारामोऽपि मोहितः सन्ननुययौ
अतः कुचोत्पादकं हृदेच तत्प्रत्येव पादकमलमर्पय । तत्पादस्म-
रणे मानसव्यथाः सर्वा नश्येयुः,अतो भवानाधिहन्निति पदेन
सम्बोध्यो भवेदिति गूढाशयः ॥ २४ ॥ यद्वा ते रमणेत्यत्र ते
अरमइतिच्छेदः। अरम इत्येकम्, रोत्येक्रम्पदम्। न विद्यते
रमा यस्य सोऽरमस्तत्सम्बोधनम्। इदानीं लक्ष्मीशू
न्यस्त्वमित्यर्थः ॥ २५ ॥ यद्वा ओवासुदेवः परमात्मा तस्मिन्ने
वरमतेऽरमः। आत्माराम इत्यर्थः ॥२६॥ यद्वा अस्माभिर्गोपीभिः
प्रकृतिभोः सह रमते इति रमः, पचाद्यच्। अस्मिन्पक्षेऽशब्दो
नास्ति। ऐति शब्दोधनार्थस्तु। हे सूकर! रे वराह! ||२७|| यद्वा
हे ज्ञानरूप!, चित्स्वरूपादिति भावः। 'णकारः सूकरे ज्ञानेनि
श्वये निर्णयेऽपिचे' -ति कोशः॥२८॥ यद्वा ध्येयमापदीत्यत्र ध्येय-
मेति सम्बोधनम् आपदीति पृथक्। ध्येयाध्यानविषयीकृता मा
सम्पद्येन 'आपदर्थे धनं रक्षे'-दिति स्मरणात् सम्पदं रक्षति भवानि.
त्यर्थः ||२९|| यद्वा आपदि मां स्मरतीत्यर्थः। 'आपत्तिकालेगृहि-
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/८८
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
गोपीगीता-