णीपरीक्षेति स्मृतेः पद्यपि नेवास्मान्स्मरसीतिभावः ॥ ३० ॥
यद्वाभवच्छोभा सर्वैर्ध्यायतइत्यर्थः॥३१॥ यद्वा ध्येय इति सम्बोध
नम्। हे ध्यानार्ह! यस्य तव पदि पादे मा लक्ष्मीः तत्र पादं लक्ष्मीर्
लाडयतीत्यर्थः ॥ ३२ ॥ यद्वा आ समन्ताद्विद्यन्ते पादा यस्य स
आपास्तस्मिन्अयम्भावान् सर्वमनुष्यसाधारणौ तव द्वौ पादौ
किन्तु भवान् सहस्रगत्, 'सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्
पा' दिति श्रुतेः । सहसपादेषु सहसलक्ष्मी रस्माभिर्भवता वाध्या.
तव्या| अहो तव पादमहात्म्यमिति ॥३३॥
सुरतवर्धनं शोकनाशनं।
स्वरित वेणुना सुष्ठु चुम्बितम् ।।
इतररागविस्मारणं नृणां।
वितर वीरनस्तेऽधरामृतम् ॥१४॥
सुरतेति। यद्वा विपूर्वकतृधातुर्दानार्थः। वितरति पात्रेषु विद्वत्सु धनानिप्रतिपादयतीति वितरस्तत्सम्बोधनम्॥ १॥ यद्वा युवतीभ्यःका मदातरित्यादि यथा यथं कल्पनीयम्। 'वितरणं स्पर्शन' मित्यमरः। पक्षे क्रियापदम्। नस्ते इत्यत्र वैपरीत्यक्रमेण पाठे तु हे स्तेन! हे चोर! स्तेन चौर्ये पचाद्य जन्तः।'स्तेनदस्युतस्करे'. 'त्यमरः। हेवीर!
* श्राङोविद्यति क्रियासम्बन्धान्नपादशब्दात्पञ्चमीति पुर्वोकमनु सन्धेयम् ॥