एवानुवाद्यन्ते । यदितु विद्वन्मानससन्तोषायेमेऽर्था नालम्। तेन मे नो हानिः । न हि विद्वन्मानसतुष्टये मया प्रतिपादिताः, किन्तु नन्दनन्दनतुष्टय “विस्तीर्णा पृथिवी जनोऽपि विविधः किं किं न सम्भाव्यते इति न्यायान्मत्समानधर्मा स्त्यत्पत्स्यते चेच्छूद्धया स एव पश्येत्। अश्रद्धया, असूयया वा दर्शने तु नोभयोर्लोकयो. र्हितम्। 'अश्रद्धयाहुतं दत्तम्" इत्यादिभगवद्वचनादित्यलंपल्लवितेनअसूयया पश्यन्तोऽपि शिशुपालादिवत् सायुज्यं प्राप्नुयुरेवेति राद्धान्तः।
किञ्च न ह्यस्मद्विना नन्दसूनुः क्षणमपि स्थातुमीष्ट इति गोपीनां चित्तसमुन्नतिः।तां निवर्तयितुमन्तर्दधौ तथाच शृङ्गार- पराणां गोपीनां पूर्व विप्रलम्भः शृङ्गारोदयेन शृङ्गारातिरेकेण पश्चात् सम्भोगपरिपूर्तिः । उभयपक्षाभ्यां स्थायिभावदृढ़तया रसास्वादः । रसश्च रत्याद्यवच्छिन्नं चैतन्यमानन्दांशे भग्नाव- रणतया स्वप्रकाशमानम्।एतेन"रसो वैसः इति श्रुत्युक्तब्रह्मरसा- स्वादो दर्शितः । किञ्च त्वयि धृतासव इति प्रथमश्लोकोक्तया "भवदायुषाम् इत्यन्तश्लोकोतया च तत्त्वमसि इति महावाक्या- र्थंबोध्यजीवब्रह्मणोरैक्यं गोपीभिःप्रतिपादितम् । किञ्च धीमहि इति गायत्रीपदविन्यासेन तत्प्रतिपाद्यब्रह्मतेजस्त्वं नन्दसूनोःप्रति- पादनीयं प्रतिपादितं भवति। किञ्चान्यासु प्रयुज्यमानोऽबलाशब्दः न विद्यते बलं यस्या इत्यर्थ एव । गोपीप्रयुज्यमानस्तु वासु- देवबलार्थक इति विशेषः । तन्मयत्वात्। किञ्च गोपजातीनामध- मानामुक्तिम्ब्रह्मपरतया कथं वर्णयसीत्यपि नैव शङ्कनीयम्