पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
गोपीगीतार्थकौमुदीसहिता-


गुणान् शब्दायन्ते। अतो वेदा वेणुस्तेन सुष्ठु चुन्बितम् सुष्टु प्रतिपादितम्। इतरेषु विषयेषु यो रागो विषयाभिलाषस्तस्य विस्मारणमेतादशमधरामृतमोष्टरूपं मोक्ष तवौष्ठमेवामृतं भोक्षो नाभ्यदित्यभिप्रायः। अस्मिन्पक्ष वीरेति ब्रह्मपतिपादकसम्बोधन- मनुकुलम् ।मोक्षप्राप्तौ सत्यां विषयाभिलाषो नृणां नैव जायते। वितरेति सम्बोधनेन दानशालित्वं गम्यते, वीरशब्दवाच्येन पर- मेश्वरेण मोक्ष एवदातु योग्यो न तु विषयः। अस्मभ्यं मोक्षं दे. हीति पर्यवसितोर्थः। वितरेति सम्बोधनेनापि परमात्मैवगम्यते, विना जीवेन सह तरति संसारसमुद्रं वितरः। विश्वरूपेण स्वेनैव वा 'द्वौ सुपर्णौ सयुजौ सखायो' इति श्रुतिरत्रानु- कूला क्रियापदपक्षे वितरणार्थः, सम्बोधनपक्षे परमात्मपरः ॥६॥ यद्वा अधरं न्यूनं कुत्सितं चामृतं देवभोज्यं मोक्षश्च यस्मात्ता. दृशं सुरतं मैथुन्यं देहि, मोक्षसुधे अपि सुरतान्न्यूने एवेति युव. तयो व्यभिचारिण्यो भवन्तीत्याशयः। यतो लोकनिवहस्ते अपि


  १ यद्वा इतरेषु स्वद्भिन्नेषु यो रागःप्रीति स्तस्या विस्मारणम्। यद्वा इतरेषु नीचेषु 'इवरस्त्वन्यनीचयोरित्यमरः। रजेघमि 'नि च भाव- करणयोरिति नलोपः। चजो: कु घिण्ण्यतोरिति कुत्वम्। इतरे च रागा वा| x ईरणमीरः ईरगती कम्पनेचेति भावः धजन्तः। वि. गतं गमनं कम्पनं वा, यस्येति वीरपदार्थाः व्यापकत्वाद्गतिशून्यत्वम्। तथा कम्पनशून्यत्वम्। शत्रुभयशून्यत्वात् कम्पनशून्यत्वम् । यतः स्वयम. यः। 'अभयं वैजनक प्राप्तोऽती' ति श्रुतिः।